Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 फरवरीमासः (हि.स.)।
भारतीय जनतादलस्य प्रतिनिधिभिः उक्तं यत् अरविंद केजरीवाल इत्यस्य आबकारीघोटालस्य केंद्रीय अन्वेषण ब्यूरो सम्बद्धप्रकरणे न्यायालयेन प्रमाणाभावात् विमोचनं कृतम्।
दलस्य राष्ट्रियप्रवक्ता सुधांशु त्रिवेदी गुरुवासरे दलकार्यालये आयोजिते संवाददाता-सम्मेलने अवदत् यत् एषः प्रकरणः तकनीकीस्वरूपस्य अस्ति तथा अस्मिन् शताधिकानि चलदूरवाणी-यन्त्राणि सिम्-कार्डानि च विनष्टानि।
सांसदः मनोज तिवारी उक्तवान् यत् केजरीवालः प्रमाणाभावात् न्यायालयात् विमुक्तः। सर्वे जानन्ति यत् प्रमाणनाशार्थं १७३ चलदूरवाणीयन्त्राणि विनष्टानि। भाजपा-नेतारः निरन्तरं प्रमाणनाशस्य विषयं उद्घोषयन्तः आसन्। आम आदमीदलनेतॄणां यथार्थं दिल्ली-जनता जानाति, अतः सा दण्डरूपेण तान् सत्तातः बहिष्कृतवती।
तिवारी उक्तवान् यत् प्रमाणनाशेन विधिं दीर्घकालं यावत् मोहितुं न शक्यते। सीबीआई उच्चन्यायालयं प्रति गच्छति, दिल्लीं लुण्ठितवन्तः भ्रष्टाचारिणः नूनं दण्डं प्राप्स्यन्ति। यदि आबकारीनीत्यां कश्चन भ्रष्टाचारः न जातः, तर्हि तां नीतिं केजरीवालः किमर्थं निरस्तवान्? उच्चतम न्यायालय अपि अस्मिन् प्रकरणे केजरीवालं मुख्यमन्त्रिरूपेण सञ्चिकासु हस्ताक्षरकरणात् निरोद्धवान्। दिल्ली-जनता केजरीवालस्य वास्तविकतां जानाति।
-----------
हिन्दुस्थान समाचार