सीमांचलभ्रमणस्य अंतिम दिने पूर्णियायां गृह मंत्री अमित शाहः अकरोत् भारत-नेपालसीमासुरक्षायाः समीक्षाम्
पूर्णिया, 27 फरवरीमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमित शाह महोदयः स्वस्य त्रिदिवसीय सीमाञ्चलपर्यटनस्य अन्तिमदिने शुक्रवासरे पूर्णियानगरे भारतनेपालसीमासम्बद्धेषु सुरक्षाविषयेषु उच्चस्तरीयां समीक्षासभाम् अकरोत्। जीरो माइल इति स्थाने स्थितस्य एकस्
बैठक तस्वीर


पूर्णिया, 27 फरवरीमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमित शाह महोदयः स्वस्य त्रिदिवसीय सीमाञ्चलपर्यटनस्य अन्तिमदिने शुक्रवासरे पूर्णियानगरे भारतनेपालसीमासम्बद्धेषु सुरक्षाविषयेषु उच्चस्तरीयां समीक्षासभाम् अकरोत्। जीरो माइल इति स्थाने स्थितस्य एकस्मिन् आतिथ्यगृहे आयोजितायां अस्यां सभायां प्रायः सप्तशतकिलोमीटरपरिमिता भारतनेपाल अन्तरराष्ट्रीयसीमा इत्यस्याः निगराणी व्यवस्थापनं सुरक्षासमन्वयश्च इत्येषु विषयेषु विस्तृतचर्चा अभवत्।

सभायां सीमावर्तीजनपदानां सुरक्षाव्यवस्था अवैधप्रवेशनिरोधः गुप्तचरसंस्थानानां मध्ये समन्वयश्च इत्यादिषु अपि विस्तारतः विचारविमर्शः कृतः। सुरक्षा संस्थानानां प्रतिवेदनानां आधारेण सीमाक्षेत्रेषु संदिग्धक्रियाकलापाः तस्करी अवैधआवागमनं च इत्येषां प्रभाविनियन्त्रणार्थं नूतना रणनीतिः निर्मिता। सीमाक्षेत्रेषु तकनीकीनिगराणिवृद्धिः गुप्तचरजालस्य सुदृढीकरणं विविधसंस्थानानां मध्ये उत्तमसमन्वयस्थापनं च विशेषतया बलं दत्तम्।

सीमाञ्चलप्रदेशः नेपालदेशेन बांग्लादेशदेशेन च संलग्नः अस्ति इति कारणात् संवेदनशीलप्रदेशरूपेण मन्यते, अतः सुरक्षाव्यवस्थायाः अधिकं सुदृढीकरणाय निर्देशाः दत्ताः। सीमास्थितपुलिसस्थानानां सक्रियतावृद्धिः सशस्त्रसीमाबलस्य स्थानीयपुलिसस्य च मध्ये उत्तमतालमेलः नियमितसंयुक्तअभियानप्रवर्तनं च इत्येषु विषये सहमतिः जाता।

प्रशासनिकस्रोतसां अनुसारं सभायां सीमाव्यवस्थापनसम्बद्धानां बहूनां महत्त्वपूर्णबिन्दूनां समीक्षा कृता भविष्यकार्ययोजनायाः विषये च सहमतिः अभवत्। सभायाः अनन्तरं सीमासुरक्षा निगराणिव्यवस्था च इत्यनयोः विषये शीघ्रमेव प्रशासनिकतकनीकीस्तरे दृढपदानि गृहीतानि भविष्यन्ति इति सम्भावना व्यक्ता।

सभायाः पश्चात् केन्द्रीयगृहराज्यमन्त्री नित्यानन्द राय महोदयः बिहारराज्यस्य खाद्यउपभोक्तासंरक्षणमन्त्री लेशी सिंह महोदया च भारतीयजनतापार्टी कार्यालयं प्राप्तवन्तौ, यत्र कार्यकर्तृभिः तयोः स्वागतं कृतम्। सभायाः कार्यसूच्याः सम्बन्धितप्रश्नेषु नित्यानन्द राय महोदयः अवदत् यत् विस्तृतसूचना सम्बन्धिताधिकारिणः एव प्रकाशयिष्यन्ति।

मन्त्री लेशी सिंह महोदया अवदत् यत् गृहमन्त्रिणः सीमाञ्चलपर्यटनं प्रदेशस्य कृते महत्त्वपूर्णम् अस्ति, अनेन सीमासुरक्षाया सह क्षेत्रीयविकासोऽपि प्रवर्धिष्यते। तया उक्तं यत् प्रधानमन्त्री नरेन्द्र मोदी गृहमन्त्री अमित शाह मुख्यमंत्री नीतीश कुमार च सीमाञ्चलप्रदेशस्य सर्वाङ्गीणविकासाय प्रतिबद्धाः सन्ति।

अस्मात् पूर्वं पूर्णियासदरविधायकः विजय खेमका महोदयः गृहमन्त्रिणा सह मिलित्वा मागपत्रं समर्पितवान्। तेन सीमाञ्चलप्रदेशे कथितानां मिथ्याआधारपत्राणां राशनपत्राणां च उच्चस्तरीयजांचायाः तथा अवैधप्रवेशनिवृत्त्यर्थं कठोरकार्यवाह्याः आग्रहः कृतः। सह पूर्णियानगरे मखानाबोर्डस्थापनम् दरभङ्गानगरस्य सदृशं एम्ससंस्थानस्थापनम् पूर्णियातः विराटनगरपर्यन्तं महाभारतसर्किटविकासः च इति प्रस्तावाः प्रस्तुताः। तस्य कथनम् आसीत् यत् पूर्णिया किशनगंज अररिया क्षेत्रेषु महाभारतकालेन सम्बद्धाः ऐतिहासिकावशेषाः विद्यन्ते, ये संरक्ष्य पर्यटनविकासेन सह सम्बद्धाः कर्तुं शक्यन्ते।

समीक्षासभायां केन्द्रीयगृहराज्यमन्त्री नित्यानन्द राय बिहारराज्यस्य उपमुख्यमन्त्री सह गृहमन्त्री सम्राट चौधरी राज्यस्य पुलिसमहानिदेशकः पुलिसमहानिरीक्षकः सीमावर्तीरेञ्जाधिकारिणः पूर्णिया अररिया कटिहार किशनगंजादीनां सीमाजनपदानां उपायुक्ताः पुलिसअधीक्षकाः द्वादशजनपदानां पुलिसउपाधीक्षकाः तथा अन्ये बहवः वरिष्ठप्रशासनिकपुलिसअधिकारीणः उपस्थिताः आसन्।--------------

हिन्दुस्थान समाचार