छत्तीसगढ विधानसभा : गाैमाता राष्ट्रमाता घाेषणीया, सदने उत्थितं तथ्यम्
रायपुरम्, 27 फ़रवरीमासः (हि.स.)। छत्तीसगढ़-विधानसभायाः बजट्-सत्रस्य पञ्चमे दिने शुक्रवासरे राज्ये भ्रमन्तीनां पशूनां पालन-रक्षणार्थं प्रवर्त्यमानानां योजनानां विषयः उत्थापितः। प्रश्नकाले विधायकः कुंवरसिंह-निषादः अवदत् यत् यदि यूयं गौमातुः नाम्ना
छत्तीसगढ विधानसभा : गाैमाता राष्ट्रमाता घाेषणीया, सदने उत्थितं तथ्यम्


रायपुरम्, 27 फ़रवरीमासः (हि.स.)।

छत्तीसगढ़-विधानसभायाः बजट्-सत्रस्य पञ्चमे दिने शुक्रवासरे राज्ये भ्रमन्तीनां पशूनां पालन-रक्षणार्थं प्रवर्त्यमानानां योजनानां विषयः उत्थापितः। प्रश्नकाले विधायकः कुंवरसिंह-निषादः अवदत् यत् यदि यूयं गौमातुः नाम्ना मतान् याचितवन्तः, तर्हि तां राष्ट्रमाता इति घोषितव्या।

विधायकः प्रश्नकाले अपृच्छत् यत् राज्ये भ्रमन्तीनां पशूनां पालन-रक्षणार्थं काः काः योजनाः प्रवर्तन्ते। मन्त्री रामविचार-नेतामः प्रत्युवाच यत् पशुधन-विभागेन प्रवर्त्यमानासु योजनासु आदर्श-गोधाम-योजना, गोकुल-धाम-गौ-अभ्यारण्य-योजना च सन्ति। विधायकः पुनः अपृच्छत् यत् एताभिः योजनाभिः कतिपशूनां पालनं क्रियते।

मन्त्री उक्तवान् यत् गोधाम-योजनायाः अन्तर्गतं ६२० पशूनां संरक्षण-व्यवस्थार्थं प्रबन्धः कृतः अस्ति। अनेकेषु स्थानेषु कार्यं प्रक्रियाधीनम् अस्ति, तत् शीघ्रमेव आरभ्यते। विधायकः पुनः अपृच्छत् यत् एतेषां ६२० पशूनां चारा-जल-व्यवस्था शासनं करोति उत अन्यः कश्चित्। मन्त्री अवदत् यत् ३६ गोठान-स्थानेषु गोधामस्य प्रशासकीय-स्वीकृतिः दत्ता अस्ति। यदा पञ्जीकृत-संस्थाभ्यः राशि दीयते, तदा तया सम्यक् उपयोगः क्रियते। विधायकः स्वीकृत-राशेः न्यूनतां निर्दिष्टवान्। मन्त्री स्पष्टीकृतवान् यत् ३६ गोठानेषु पशूनां स्थापने व्यवस्था क्रियते। राज्ये भ्रमन्तीनाम् आवार-पशूनां संरक्षणं क्रियमाणम् अस्ति।

विधायकः पुनः अपृच्छत् यत् एते गोठानाः कुत्र कुत्र सञ्चालिताः सन्ति। मन्त्री अवदत् यत् द्वौ गोठानौ तखतपुर-बिलासपुर-क्षेत्रे, साजा-बेमेतरा-क्षेत्रे तथा राजपुर-मरवाही-क्षेत्रे सञ्चालितौ स्तः। एवं एकादश स्थानेषु गोठानाः उद्घाटिताः सन्ति, त्रिषु स्थानेषु च सञ्चालिताः सन्ति। विधायकः अपृच्छत् यत् संचालनार्थं अद्यापि दृढ-कार्ययोजना नास्ति किम्। मन्त्री प्रत्युवाच यत् ये अपि भ्रमन्तः पशवः सन्ति ते नगरीय-क्षेत्रेषु सन्ति, ग्राम्य-क्षेत्रेषु च भिन्नरूपेण सन्ति। पालनं न अस्माकं कार्यम्, किन्तु संरक्षण-संबद्धं कार्यम् एव अस्माकं दायित्वम् अस्ति।

---------------

हिन्दुस्थान समाचार