Enter your Email Address to subscribe to our newsletters

राजनांदगांवः, 27 फरवरीमासः (हि.स.)।
चैत्र-नवरात्रि-पर्वणि डोंगरगढ़-नगरस्थिते माँ बम्लेश्वरी-मन्दिरे १९ मार्च २०२६ दिनाङ्कात् आरभ्यमाणे मेले यात्रिकाणां सुविधायाः तथा विधि-व्यवस्थायाः विषये चर्चार्थं २ मार्च २०२६ दिनाङ्के प्रातः ११ वादने कलेक्टोरेट-सभाकक्षे बैठकः आयोजितः अस्ति।
अस्यां गोष्ठ्यां सर्वे सम्बन्धित-अधिकारीणः अनिवार्यतया उपस्थिताः भवन्तु इति निर्देशाः प्रदत्ताः सन्ति।
---------------
हिन्दुस्थान समाचार