Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २७ फरवरीमासः (हि.स.)। हरिदेव: जोशी पत्रकारिता एवं जनसंचार विश्वविद्यालय द्वारा राजस्थान–उच्च–एवं–तकनीकी–शिक्षा–गुणवत्ता–संशोधन–योजनान्तर्गतं शनिवासरे एकदिवसीय–संगोष्ठ्याः आयोजनं भविष्यति। संगोष्ठ्याः विषयः— “समकालीन–माध्यम–प्रवृत्तयः : अवसराः तथा समस्या:” इति। अस्य कार्यक्रमस्य अध्यक्षतां विश्वविद्यालयस्य कुलगुरुः प्रो.नंद-किशोर-पाण्डेय: करिष्यति।
संगोष्ठी द्वाभ्याम् अकादमिक–सत्राभ्यां विभक्ता अस्ति, यत्र मुद्रित–माध्यम:, डिजिटल–माध्यम: तथा अकादमिक–क्षेत्रेभ्यः सम्बद्धाः विविधाः विशेषज्ञाः अतिथयश्च सहभागितां करिष्यन्ति। ते सर्वे स्व–स्व–क्षेत्रानुभवेषु, समकालीन–समस्यासु तथा उद्भवमान–अवसरेषु विस्तरेण विचारान् प्रस्तोष्यन्ति।
संगोष्ठेः विषये सूचनां प्रयच्छन् कुलगुरुः प्रो.नन्दकिशोर–पाण्डेयः अवदत् यत् समकालीन–माध्यम–परिदृश्यं तीव्रगत्या परिवर्तते। डिजिटल–मञ्चाः, कृत्रिम–बुद्धिः (Artificial Intelligence) तथा सामाजिक–माध्यमानि पत्रकारितायाः कार्यशैलीं व्यापकतया प्रभावितवन्ति। एतादृशे काले माध्यम–विद्यार्थिभ्यः, शोधार्थिभ्यः तथा अध्यापकेभ्यः अपि परिवर्तनशील–प्रवृत्तिनां, नैतिक–समस्यानां तथा व्यावसायिक–अवसराणां गम्भीर–बोधः अत्यावश्यकः।
कार्यक्रमस्य रूपरेखां सहभगं कुर्वन् संगोष्ठेः संयोजकः डॉ.रत्नसिंह: शेखावत: अवदत् यत् प्रथम–सत्रे समकालीन–माध्यम–प्रवृत्तयः तथा भाषा–पत्रकारिता विषयकं विमर्शः भविष्यति; द्वितीय–सत्रे तु शासकीय–सञ्चार–तन्त्रं, डिजिटल–माध्यम–मञ्चाः तथा समाचार–वाचनस्य (न्यूज़–एंकरिंग) परिवर्तित–आयामाः इत्येतेषु विचार–विनिमयः क्रियते।
विश्वविद्यालय–प्रशासनं विद्यार्थिनः, शोधार्थिनः तथा माध्यम–प्रतिनिधीन् कार्यक्रमे सक्रिय–सहभागितायै आमन्त्रयति।
हिन्दुस्थान समाचार / अंशु गुप्ता