कलापरंपरयोर्भव्य संगम: मंडी हाउस इत्यत्र सज्जीभविष्यति ‘दिल्लीकलोत्सवः’
नव दिल्ली, 27 फरवरीमासः (हि.स.)। संस्कार भारती इत्यियं संस्था दिल्ली सरकार सहयोगेन २८ फेब्रुवरी तथा १ मार्च दिवसे रवींद्र भवन मण्डीहाउसस्थिते द्विदिवसीयं भव्यं सांस्कृतिककार्यक्रमं “दिल्ली कला उत्सव” इति नाम्ना आयोजयिष्यति। अस्य उत्सवस्य उद्देश्
रवींद्र भवन, मंडी हाउस


नव दिल्ली, 27 फरवरीमासः (हि.स.)।

संस्कार भारती इत्यियं संस्था दिल्ली सरकार सहयोगेन २८ फेब्रुवरी तथा १ मार्च दिवसे रवींद्र भवन मण्डीहाउसस्थिते द्विदिवसीयं भव्यं सांस्कृतिककार्यक्रमं “दिल्ली कला उत्सव” इति नाम्ना आयोजयिष्यति।

अस्य उत्सवस्य उद्देश्यः भारतीयकला संस्कृति परम्पराणां विविधधाराणां एकस्मिन् मंचे प्रदर्शनम् अस्ति, यत्र ख्यातिप्राप्तकलाकारैः सह नवोदितप्रतिभाभ्यः अपि स्वकौशलप्रदर्शनस्य अवसरः प्रदीयते। मण्डीहाउसे आयोजितः अयं “दिल्ली कला उत्सव” तृतीयः संस्करणः अस्ति, यस्य पूर्वसंस्करणानि व्यापकप्रशंसां प्राप्तवन्ति।

आयोजकानां मतानुसारम् अयं उत्सवः भारतीयकलानां संरक्षणसंवर्धनयोः समर्पितः अस्ति। अस्मिन् शास्त्रीयलोकनृत्यानि, संगीतगायनप्रस्तुतयः, नाट्यमञ्चनम्, कविसम्मेलनम्, चित्रकला मूर्तिकला प्रदर्शनी च सहित्य अनेकाशां पारम्परिककलानां प्रदर्शनं भविष्यति।

कार्यक्रमस्य प्रमुखाकर्षणेषु कठपुतलीकला, बायस्कोपप्रदर्शनम्, कुम्हारकला-प्रदर्शनम्, पारम्परिकशिल्पकाराणां सहभागिता, बहुरूपियाकला, जादूकला, लाखचूड्यः, लोककलाकाराणां प्रस्तुतयः, पुस्तक-स्टॉलाः च समाविष्टाः सन्ति।

अस्मिन् वर्षे उत्सवे दिल्ली-6 इत्यस्य पारम्परिकभोजनानि अपि विशेषाकर्षणरूपेण भविष्यन्ति, यत्र आगन्तुकाः सामान्यशुल्केन पुरातनदिल्लीस्य प्रामाणिकस्वादम् आस्वादयितुं शक्नुवन्ति। आयोजकाः वदन्ति यत् कला सह सांस्कृतिकखाद्यानुभवः अपि अस्य आयोजनस्य वैशिष्ट्यं वर्धयति।

प्रतिदिनं अपराह्णे २ वादनात् रात्रौ ९ वादनपर्यन्तं आयोज्यमानः अयं उत्सवः आगामि होलीपर्वणः पूर्वं राजधानी-नगरे सांस्कृतिकोत्साहस्य वातावरणं निर्मास्यति। परिवाराणां विद्यार्थिनां कला-प्रेमिणां च कृते भारतीयसंस्कृतेः विविधवर्णानां परम्पराणां च सन्निकटतया परिचयस्य एषः महत्त्वपूर्णः अवसरः भविष्यति।

---------------

हिन्दुस्थान समाचार