Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 फ़रवरीमासः (हि.स.)।
दिल्लीस्थितायाः राउज एवेन्यू न्यायालयात् आबकारीनीतिसम्बद्धे प्रकरणे दोषमुक्तिः प्राप्ता सति आम आदमी पार्टी इत्यस्य राष्ट्रीयसंयोजकः पूर्वमुख्यमन्त्री च अरविन्द केजरीवालः अवदत् यत् गतचतुर्षु वर्षेषु प्रवर्तननिदेशालयः तथा केन्द्रीय अन्वेषण संस्थानम् इत्येतयोः दुरुपयोगं कृत्वा मिथ्या मद्यघोटालप्रकरणं निर्मितम्। अद्य न्यायालयेन एतत् निर्णेतव्यं आसीत् यत् अस्मिन् प्रकरणे अभियोगः प्रवर्तनीयः उत न। न्यायालयस्य निर्णयेन उक्तं यत् एतत् प्रकरणम् इत्थं मिथ्या अस्ति यत् अस्मिन् अभियोगः अपि न प्रवर्तयितुं शक्यते।
केजरीवाल महोदयः आम आदमी पार्टी इत्यस्य राष्ट्रियकार्यालये पत्रकारसम्मेलने उक्तवान् यत् अहं केवलः कश्चन नेता नास्मि यः एतादृशेन आरोपेण अप्रभावितः भवेत्, किन्तु यदा मां कोऽपि बेईमान इति वदति, मम परिवारं प्रति अपमानजनकवचनानि उच्चार्यन्ते, तदा मम हृदये वेदना जायते। मया निश्चयः कृतः आसीत् यत् यावत् अहं समग्रदेशस्य सम्मुखे ईमानदार इति सिद्धो न भविष्यामि, तावत् मौनमेव धारयिष्यामि। अद्य मम हृदयात् महान् भारः अपगतः।
तेन उक्तं यत् दिल्ल्यां केजरीवालं पराजयितुं न शक्यते स्म, अतः तस्य ईमानदारीं आघातयितुं षड्यंत्रं रचितम्। अद्य न्यायालयस्य निर्णयेन सिद्धं यत् अरविन्द केजरीवाल, मनीष सिसोदिया, संजय सिंह तथा आम आदमी पार्टी अपि अत्यन्तम् ईमानदाराः सन्ति। अधुना तैः देशात् क्षमा याचनीया।
केजरीवालः अवदत् यत् अस्माकं परिवारः बहु दुःखं सोढवान्, किन्तु अस्माकं कृते परिवारात् अधिकं दिल्लीनगरस्य जनाः महत्वपूर्णाः सन्ति। अस्य षड्यंत्रस्य दुष्परिणामं दिल्ल्याः त्रिकोटिजनाः अनुभवन्ति। तेन उक्तं यत् अस्य मिथ्याघोटालस्य समर्थनार्थं सर्वाणि अन्वेषणसंस्थानानि पूर्णप्रयत्नं कृतवन्ति, तथापि एकस्य अपि पैसस्य भ्रष्टाचारः सिद्धुं न शक्तः। अद्य न्यायालये सिद्धं जातं यत् एतत् सम्पूर्णं षड्यंत्रम् आम आदमीदलं तथा तस्य नेतॄन् कलङ्कयितुं रचितम् आसीत्।
---------------
हिन्दुस्थान समाचार