Enter your Email Address to subscribe to our newsletters

इंदौरम्, 27 फरवरीमासः (हि.स.)।
लोकसभाध्यक्षः ओम बिरला अद्य शुक्रवासरे मध्यप्रदेशराज्यस्य एकदिवसीयप्रवासाय इंदौर नगरं आगच्छति। सः अत्र वैष्णव विद्यापीठ विश्वविद्यालय इत्यस्य दीक्षान्तसमारोहे सहभागितां करिष्यति।
जनसम्पर्काधिकारी महिपाल-अजय-महोदयेन सूचितं यत् लोकसभाध्यक्षः बिरलामहोदयः इन्दौर-नगरम् आगत्य प्रथमं रेसिडेन्सी-कोठ्यां अल्पविश्रामं करिष्यति। ततः प्रातः १०:१५ वादने वैष्णव-विद्यापीठ-विश्वविद्यालये आयोजिते दीक्षान्तसमारोहे उपस्थितिं दास्यति।
लोकसभाध्यक्षः अपराह्णे २:०० वादने बॉम्बे-हॉस्पिटल-समीपे स्थिते महेश्वरम्-भवने आयोजिते कार्यक्रमे अपि सहभागिता करिष्यति।
अनन्तरं सः सायं ५:१० वादने इंदौर रेलवे स्टेशन स्थानकात् कोटा नगराय प्रस्थानं करिष्यति।
---------------
हिन्दुस्थान समाचार