क्रीडकस्य रिंकू सिंहस्य पितुर्निधनं, क्रीडाजगति शोकस्य लहरी
नवदिल्ली, 27 फ़रवरीमासः (हि.स.)। रिंकू सिंहस्य पितुः खानचन्दसिंहस्य यथार्थ अस्पताल स्थिते ग्रेटर नोएडा नगरे शुक्रवासरे प्रातः ४.३६ वादने निधनम् अभवत्। सः षष्टिवर्षीयः आसीत् तथा यकृत्कर्कटरोगेण पीडितः आसीत्। भारतीय क्रिकेट कंट्रोल बोर्ड इत्यस्य सं
अपने पिता के साथ रिंकू सिंह


नवदिल्ली, 27 फ़रवरीमासः (हि.स.)। रिंकू सिंहस्य पितुः खानचन्दसिंहस्य यथार्थ अस्पताल स्थिते ग्रेटर नोएडा नगरे शुक्रवासरे प्रातः ४.३६ वादने निधनम् अभवत्। सः षष्टिवर्षीयः आसीत् तथा यकृत्कर्कटरोगेण पीडितः आसीत्।

भारतीय क्रिकेट कंट्रोल बोर्ड इत्यस्य संयुक्तसचिवः देवजीत सैकिया उक्तवान् यत् पितुः अन्त्येष्टिकर्मणि सहभागितार्थं रिंकूसिंहः चेन्नई स्थितात् दलशिबिरात् गृहम् प्रत्यागतः। तेन रिंकूसिंहस्य पितुः निधनविषये गाढं शोकं व्यक्तं कृत्वा उक्तं यत् अयं कठिनकालः अस्ति, बोर्डः रिंकू तथा तस्य परिवारस्य सह स्थितः अस्ति।

बीसीसीआई इत्यस्य उपाध्यक्षः राजीव शुक्ला सामाजिकमाध्यमे शोकसन्देशं प्रकाशितवान् यत् एषा वार्ता अत्यन्तं दुःखदा। अस्मिन् दुःखसमये तस्य गाढाः संवेदनाः रिंकू तथा तस्य सम्पूर्णपरिवारस्य सह सन्ति। ईश्वरः दिवङ्गतात्मनः शान्तिं ददातु तथा शोकाकुलपरिजनान् धैर्यं प्रददातु।

पूर्वसर्वाङ्गक्रीडकः युवराज सिंह लिखितवान् यत् एषा वार्ता हृदयविदारिणी अस्ति, एतादृशे समये शब्दाः अपर्याप्ताः भवन्ति, तथापि सम्पूर्णः क्रिकेटसमुदायः रिंकू तथा तस्य परिवारस्य सह दृढतया तिष्ठति।

पूर्वस्पिनकन्दुकप्रक्षेपकः हरभजन सिंह अवदत् यत् एषः समयः रिंकू तथा तस्य परिवारस्य कृते अतीव कठिनः अस्ति, तथा दिवङ्गतात्मनः शान्त्यर्थं प्रार्थनां कृतवान्।

पूर्वप्रख्यातबल्लेबाजः वीरेंद्र सहवाग सन्देशे लिखितवान् यत् “रिंकू, भवतः पितुः निधनवार्ता श्रुत्वा मम मनः अतीव दुःखितम्। तेन बहवः त्यागाः कृताः, सुदृढं श्रेष्ठं च पुत्रं पोषितवान्, एषा एव तस्य महान् विरासत् अस्ति। धैर्यं धारय, मम प्रार्थनाः भवतः परिवारस्य सह सन्ति।”

पूर्वक्रीडकः सुरेश रैना लिखितवान् यत् “भ्रातः, भवतः पितुः निधनसमाचारः श्रुत्वा गाढं दुःखम् अनुभूतम्। मम हार्दिकाः संवेदनाः स्वीकुरुत। ईश्वरः तस्य आत्मनः शान्तिं ददातु तथा भवतः एतस्मिन् कठिनकाले शक्तिं प्रददातु।शिखर धवन अपि उक्तवान् यत् सः अस्मिन् दुःखसमये रिंकू तथा तस्य परिवारस्य सह अस्ति तथा दिवङ्गतात्मनः शान्त्यर्थं प्रार्थनां करोति।चेन्नई सुपर किंग्स अपि स्वसन्देशे गाढां संवेदनां व्यक्तं कृत्वा उक्तवान् यत् अस्मिन् कठिनसमये तेषां प्रार्थनाः रिंकू तथा तस्य परिवारस्य सह सन्ति।रिंकूसिंहस्य पिता खानचन्दसिंहः अलीगढ़ नगरे एलपीजीसिलिण्डरवितरणकार्ये नियोजितः आसीत्। क्रिकेटजगतः प्राप्ताभिः श्रद्धाञ्जलिभिः सह सम्पूर्णः देशः अस्मिन् दुःखसमये रिंकूसिंहस्य परिवारस्य सह स्थितः अस्ति।-----------

हिन्दुस्थान समाचार