Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूम:, २७ फरवरीमासः (हि.स.) — होली–उत्सवसमये यात्रिणां अधिकसम्मर्दं दृष्ट्वा, रेल–प्रशासनं टाटानगरतः बक्सरपर्यन्तं होली–विशेष–टीओडी–रेलयानं सञ्चालयितुं निर्णयं कृतवान्। एतत् विशेष–रेलयानं 08183/08184 टाटा–बक्सर–टाटा होली–विशेष–टीओडी इति सञ्चालितम् भविष्यति, पञ्च पञ्च पर्याया: व्यवस्थापिताः सन्ति।
रेलयानसंख्या 08183 टाटा–बक्सर होली–विशेष: ३ मार्चमासे २०२६ त: आरभ्य ३१ मार्चमास: २०२६ पर्यन्तं प्रत्येकं मङ्गलवासरे टाटानगरतः प्रस्थानं करिष्यति। तथा, रेलयानसंख्या 08184 बक्सर–टाटा होली–विशेष ४ मार्चमास: २०२६ त: आरभ्य १ अप्रिलमास: २०२६ पर्यन्तं प्रत्येकं बुधवासरे बक्सरतः प्रस्थानं करिष्यति। उभयोः दिशयोः पञ्च–पञ्च यात्रा: निर्धारिताः।
निर्धारितसमयानुसारं 08183 टाटा–बक्सर होली–विशेष सायंकालं १७:१० वादने टाटानगरतः प्रस्थानं करिष्यति। एतत् रेलयानं चाण्डिलम्, पुरुलियाम्, बोकारो–स्टील–सिटीम्, राजाबेड़ाम्, चंद्रपुराम्, धनबादम्, पाथरडीहम्, चिरकुंडाम्, मधुपुरम्, जसीडीहम्, झाझाम्, किउलम्, मोकामाम्, बख्तियारपुरम्, पटना–जंक्शनम्, दानापुरम्, आराम् च गत्वा अनन्तरम् प्रातः ०८:१५ वादने बक्सरं प्राप्स्यति।
प्रतिगमन–यात्रायाम् 08184 बक्सर–टाटा होली–विशेषं मध्याह्ने १२:०० वादने बक्सरतः प्रस्थानं करिष्यति, आरा, दानापुर, पटना–जंक्शन, बख्तियारपुर, मोकामा, किउल, झाझा, जसीडीह, मधुपुर, धनबाद, चंद्रपुरा, बोकारो–स्टील–सिटी, पुरुलिया, चाण्डिल च मार्गेण अनन्तरम् प्रातः ०४:३० वादने टाटानगरं प्राप्स्यति।
शुक्रवासरे रेल–अधिकारिणः उक्तवन्तः यत्, होली–पर्वणि झारखण्ड–बिहारयोः मध्ये यात्रिणां अधिकसम्मर्दं नियन्त्रणं कर्तुं तथा यात्रिभ्य: सुखद–यात्रा–सौविध्यं प्रदातुं एतत् विशेष–रेलयानं सञ्चालितम्। यात्रिणः प्रति निवेदनं कृतम् यत्, ते समय–सारिणीं ज्ञात्वा अग्रिम–आरक्षणं कुर्वन्तु तथा यात्रायाम् रेल–नियमानां पालनं कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता