मृतक आश्रितानां सेवायोजन प्रकरणानां निस्तारणं मासत्रयं करणीयम्अधिकारिभिः - मुख्यसचिवः
लखनऊ, 27 फ़रवरीमासः (हि.स.)। उत्तर प्रदेश राज्यस्य मुख्यसचिवः एसपी गोयल विभागाध्यक्षान् प्रमुखसचिवान् च निर्देशितवान् यत् सेवाकाले दिवंगतानां सरकारीसेवकानां आश्रितानां सेवायोजनसम्बद्धप्रकरणानां निस्तारणं विलम्बतमं त्रिमासाभ्यन्तरे सुनिश्चितं क्र
मुख्य सचिव एसपी गोयल की फोटो


लखनऊ, 27 फ़रवरीमासः (हि.स.)।

उत्तर प्रदेश राज्यस्य मुख्यसचिवः एसपी गोयल विभागाध्यक्षान् प्रमुखसचिवान् च निर्देशितवान् यत् सेवाकाले दिवंगतानां सरकारीसेवकानां आश्रितानां सेवायोजनसम्बद्धप्रकरणानां निस्तारणं विलम्बतमं त्रिमासाभ्यन्तरे सुनिश्चितं क्रियताम्। तेन अस्य विषयस्य सम्बन्धे शासनस्य सर्वेभ्यः अधिकारिभ्यः पत्रम् अपि प्रेषितम्।

मुख्यसचिवेन प्रेषिते पत्रे उक्तं यत् उत्तरप्रदेशे “सेवाकाले दिवंगतानां सरकारीसेवकानां आश्रितानां भर्ती नियमावली १९७४ (यथासंशोधित)” प्रवर्तमाना अस्ति। अस्याः नियमावलयाः मूलोद्देश्यः सरकारीसेवकस्य आकस्मिकमृत्योः अनन्तरं तस्य परिवारम् उपरि आगतां आपदं तात्कालिकं आर्थिकसंकटं च निवारयितुम् अस्ति।

पत्रे अग्रे अपि निर्दिष्टं यत् शासनस्य संज्ञानम् आगतम् यत् उक्तनियमावलयाः अन्तर्गतप्रकरणेषु विविधकारणैः अनावश्यकविलम्बः भवति। तेन नियमावलयाः मूलभावनायाः परिपूर्तिः न भवति तथा सम्बन्धितजनाः समये लाभं प्राप्तुं न शक्नुवन्ति। फलतः मृतकस्य आश्रितपरिवाराः आर्थिकसंकटं मानसिककठिनतां च अनुभवन्ति।

अतः निर्देशितं यत् नियमावल्याः आधीनानां सर्वेषां प्रकरणानां निस्तारणं पारदर्शितया सह समयबद्धरूपेण विलम्बतमं त्रिमासाभ्यन्तरे अवश्यम् सुनिश्चितं क्रियताम्।

---------------

हिन्दुस्थान समाचार