Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २७ फरवरीमासः (हि.स.) — अंताराष्ट्रिय–महिला–दिवसावसरे, ८ मार्चमासे राजधानी–लखनऊनगरे आयोज्ये राज्य–स्तरीय-बाल–उत्सवे प्रदेशस्य कन्यानां प्रतिभा:, आत्मविश्वासः तथा नेतृत्व–क्षमता: भव्यतया प्रदर्शनं करिष्यते। समग्र–शिक्षायाः अन्तर्गतं आयोज्यमाने अस्मिन् महोत्सवे सर्वेभ्य: जनपदेभ्य: चयनिताः प्रतिभागिन्यः सप्त-मार्चमासे लखनऊनगरम् आगमिष्यन्ति, अनन्तरं सांस्कृतिक-रचनात्मक-बौद्धिक-क्रियाः राज्य–स्तरीयमंचे स्व–प्रतिभायाः प्रभावं दर्शयिष्यन्ति।
उल्लेखनीयम् यत्, महिला–दिवसे आयोज्यमान: एष: राज्य–स्तरीय: बाल–उत्सवः ‘सशक्त–बालिका–समृद्ध–उत्तर–प्रदेश:’ इत्यस्य संकल्पस्य साकाराय प्रेरकं प्रयत्नं भविष्यति। एषः सन्देशं दास्यति यत्, यदि मंच:, मानम् अवसर: च लभ्येत, कन्याः सर्वेषु क्षेत्रेषु उत्कृष्टतायाः नवीनं मानकं स्थापयितुं शक्नुवन्ति।
अस्मिन् विषये बेसिक–शिक्षा–राज्य–मन्त्री स्वतंत्र–प्रभारः संदीपः सिंहः उक्तवान् यत्, महिला–दिवसे आयोज्यमान: एष: राज्य–स्तरीयबाल–उत्सवः प्रदेशस्य कन्यानां प्रतिभा-आत्मविश्वास-नेतृत्व–क्षमता-प्रदर्शनाय सशक्तं मंचं प्रदास्यति। प्रत्येकं बालिकायै शिक्षायै सह परिचयः अवसरः च प्रदातव्यः, तासां भविष्यस्य नेतृत्वकर्तृरूपेण संस्कारः कर्तव्यः, इति सरकारस्य प्रमुखं उद्देश्य अस्ति।
अस्मिन् बाल–उत्सवे कन्यानां अभिव्यक्ति:, नवाचारः तथा नेतृत्व–कौशलं प्रदर्शनाय व्यापकः अवसरः स्यात्। राज्य–स्तरीय चयनितेभ्यः प्रतिभागिभ्य: मंचः, मार्गदर्शनं सम्मानं प्रदातुं आयोजने यस्मिन् तथ्यं प्रतिबिम्बयिष्यति यत्, उत्तर–प्रदेशस्य कन्या: इदानीं प्रत्येकं क्षेत्रे नवीनं परिचयं निर्मातुं समर्था: वर्तन्ते। उत्सवस्य माध्यमेन बालिकानां आत्मविश्वासः रचनात्मकता प्रोत्साहनं च प्राप्स्यति, सहैव स्वस्थ–प्रतिस्पर्धा तथा दल–भावना शिक्षायाः अवसरं च लप्स्यते।
जनपद–स्तरात् राज्य–स्तरं पर्यन्तं चयन–प्रक्रियायाः मार्गेण आगम्यमाना: प्रतिभागिन्यः प्रदेशस्य विविध–सांस्कृतिक–धरोहरं शैक्षिक–क्षमतायाः दृश्यं च अपि प्रकटयिष्यन्ति।
महानिदेशकः, विद्यालय–शिक्षा, उत्तर–प्रदेश:, मोनिका रानी अपि उक्तवती यत्, राज्य–स्तरीय-बाल–उत्सवे जनपदात् चयनिताः बालिकाः रचनात्मक, सांस्कृतिक, बौद्धिक च अभिव्यक्तौ व्यापकं अवसरं प्रास्यन्ति। एषः उत्सवः बालिका–प्रतिभा: वर्धयितुं, आत्मविश्वासं च वृद्धिं कर्तुं, राज्य–स्तरीयं सम्मानं च प्रदातुं अवसरः स्यात्।
उत्सव–क्रियाः
-प्रदेशस्य सर्वेभ्य: जनपदेभ्यः चयनितेभ्यः प्रतिभागिभ्य: सहभागिता-सांस्कृतिकप्रस्तुति:, कला तथा रचनात्मक प्रतियोगिताः-बौद्धिक तथा नवाचार–आधारित क्रियाः-बालिका–प्रतिभायाः विशेष–केन्द्रणम्-राज्य–स्तरीय मंचे सम्मानं प्रमाणपत्रं च प्रदानम्-०७ मार्चमासे प्रतिभागिनां आगमनम्, ०८ मार्चमासे मुख्यायोजनम्
हिन्दुस्थान समाचार / अंशु गुप्ता