होली में ब्रह्मोस मिसाइल एवं सिन्दूर थीम से बनी पिचकारियों से सज गई दुकानें
प्रयागराजः, 27 फ़रवरीमासः (हि.स.)। अस्मिन् वर्षे होली-पर्वणि बालकाः बाबा भोलेनाथ-त्रिशूल-डमरु-तुम्बी-आकृतिभिः सह, अपि च “ब्रह्मोस-मिसाइल्”, “एम-४१६” इत्यादि-आधारित-पिचकारीभिः रङ्गवर्षां कृत्वा होली-क्रीडां करिष्यन्ति। एतादृश-आकर्षक-पिचकारी-विक्रय
प्रयागराज के सोहबतियाबाग के मंगल की दुकान में लगी ब्रह्मोस मिसाइल एवं राफेल वाली पिचकारी का छाया चित्र


प्रयागराज के सोहबतियाबाग के मंगल की दुकान में लगी ब्रह्मोस मिसाइल एवं राफेल वाली पिचकारी का छाया चित्र


होली पर सजी पिचकारियों की दुकान


प्रयागराजः, 27 फ़रवरीमासः (हि.स.)।

अस्मिन् वर्षे होली-पर्वणि बालकाः बाबा भोलेनाथ-त्रिशूल-डमरु-तुम्बी-आकृतिभिः सह, अपि च “ब्रह्मोस-मिसाइल्”, “एम-४१६” इत्यादि-आधारित-पिचकारीभिः रङ्गवर्षां कृत्वा होली-क्रीडां करिष्यन्ति। एतादृश-आकर्षक-पिचकारी-विक्रय-केन्द्राणि नगरस्य चतुष्पथेषु स्थापितानि सन्ति।

रङ्ग-समरसता-पूर्णां होली-उत्सवं मनयितुं ग्राहकाणां भीडः अपि वर्धते। प्रयागराज-नगरस्य सोहबतियाबाग-मोहल्ले प्रतिवर्षं होली-पर्वणि आपणं स्थापयन् विक्रेता मङ्गलः अवदत् यत् अस्मिन् वर्षे भक्तेः शक्तेः च विषयक-आकृतिभिः निर्मित-पिचकारीणां बहुलता अस्ति।

“सिन्दूर”, “ब्रह्मोस-मिसाइल्”, “राफेल्”, “एम-४१६” इत्यादि-आकृतियुक्त-पिचकारीणां मूल्यं ५७० रूप्यकात् आरभ्यते। मङ्गलः उक्तवान् यत् भगवान्-परशुरामस्य फरस-आकृत्या निर्मिता पिचकारी २०० रूप्यक-मूल्या अस्ति। भोलेनाथस्य त्रिशूल-डमरु-तुम्बी-आकृतियुक्ता पिचकारी १५० रूप्यक-मूल्या अस्ति। छत्र-हथौड़ा-आकर्षक-रूपरेखा-संगीतयुक्ता पिचकारी ५०० रूप्यक-मूल्या अस्ति।

तेन उक्तं यत् आकर्षक-रूपरेखाभिः पिचकारीभिः बालकाः अतीव आकर्षिताः भवन्ति। “ब्रह्मोस” तथा “राफेल्” इत्यादीनां पश्चात् बालकानां विशेष-रुचिः त्रिशूल-डमरु-तुम्बी-फरस-हथौड़ा-आकृतिषु दृश्यते।

रङ्ग-बिरङ्ग-आकर्षक-टोपीः अपि बाजारम् आगताः सन्ति, आपणाः समलङ्कृताः सन्ति। रङ्ग, गुलाल, अबीर-चूर्णानां विक्रय-केन्द्राणि अपि सर्वत्र दृश्यन्ते।

---------------

हिन्दुस्थान समाचार