राजनीतिकपथि अवतीर्णा एथलीट स्वप्ना बर्मन्, तृणमूल कांग्रेसदले सम्मिलिता
कोलकाता, २७ फरवरीमासः (हि.स.)। प्रसिद्धा एथलीटा अन्तरराष्ट्रीय हेप्टाथलॉन क्रीडिका स्वप्ना बर्मन शुक्रवासरे आधिकारिकरूपेण आल इण्डिया तृणमूल कांग्रेस दलस्य सदस्यत्वं स्वीकृतवती। विधानसभानिर्वाचनस्य सज्जतासु प्रवर्तमानासु तस्या क्रीडाक्षेत्रात् राजन
स्वपना बर्मन


कोलकाता, २७ फरवरीमासः (हि.स.)।

प्रसिद्धा एथलीटा अन्तरराष्ट्रीय हेप्टाथलॉन क्रीडिका स्वप्ना बर्मन शुक्रवासरे आधिकारिकरूपेण आल इण्डिया तृणमूल कांग्रेस दलस्य सदस्यत्वं स्वीकृतवती। विधानसभानिर्वाचनस्य सज्जतासु प्रवर्तमानासु तस्या क्रीडाक्षेत्रात् राजनीतिक्षेत्रे प्रवेशः महत्त्वपूर्णः परिवर्तनरूपेण मन्यते।

स्वप्ना बर्मन २०१८ वर्षे आयोजितेषु एशियन गेम्स स्पर्धासु स्वर्णपदकविजयिनी आसीत्। अपि च २०१७ वर्षस्य एशियन एथलेटिक्स चैंपियनशिप्स स्पर्धासु अपि सा स्वर्णपदकं प्राप्तवती। सा उक्तवती यत् ममता बनर्जी इत्यस्याः मुख्यमन्त्रिण्याः भूमिस्पर्शी संघर्षः कार्यशैली च ताम् अत्यन्तं प्रेरितवन्तौ, अतः राजनीतिक्षेत्रे प्रवेष्टुं निश्चयं कृतवती।

आल इण्डिया तृणमूल कांग्रेस मुख्यालये राज्यस्य मन्त्री ब्रात्य बसु तथा चंद्रिमा भट्टाचार्य तां सस्नेहं स्वागतम् अकुर्वताम्। ब्रात्य बसुः प्रसिद्धः नाटककारः अभिनेता च अस्ति। सः स्वप्नायाः यथार्थसफलतां चर्चिताभिः क्रीडाचित्रपटाभिः सह तुलयन् उत्साहेन अवदत् “चक दे स्वप्ना” इति।

तृणमूल भवने सदस्यत्वं स्वीकृत्य स्वप्ना बर्मन अवदत् यत् मुख्यमन्त्रिण्याः ममता बनर्जी इत्यस्याः विविधानि विकासकार्याणि तां अत्यन्तं प्रेरितवन्ति। अद्य अहं तस्याः कार्येषु सहभागिनी भवितुं तृणमूल कांग्रेस दले सम्मिलिता अस्मि इति। तस्याः दलप्रवेशः एतदेव सूचयति।

पूर्वं किञ्चित्कालात् एषा अफवा आसीत् यत् स्वप्ना बर्मन भारतीय जनता दले सम्मिलिष्यति, अपि च प्रत्याशी भविष्यति इति। किन्तु सा सर्वासु अफवासु विरामं दत्त्वा तृणमूल कांग्रेस दलं स्वीकृतवती।

उल्लेखनीयम् अस्ति यत् तस्याः राजनीतिपथे अवतरणं विषये बहवः अनुमाना अभवन्। गतजनवरीमासे मुख्यमन्त्री ममता बनर्जी सिलीगुडी नगरं गतवती, यत्र महाकाल महातीर्थ परियोजनायाः शिलान्यासः कृतः। तस्मिन् कार्यक्रमे स्वप्नायाः विशेषः सत्कारः अभवत्। मंचे तयोः दीर्घसंवादः राजनैतिकवृत्तान्तेषु विशेषचर्चां जनितवान्। तदनन्तरं एषा अन्तरराष्ट्रीय क्रीडिका राजनीतिक्षेत्रे प्रवेशं करिष्यति इति वार्ता प्रचलिता आसीत्।

राजनीतिविशेषज्ञाः वदन्ति यत् उत्तरबंगप्रदेशे सिलीगुडी राजवंशस्य वंशजा स्वप्ना बर्मनस्य आगमनात् आगामिनिषु निर्वाचनेषु डूआर्स प्रदेशे उत्तरबंगस्य विस्तीर्णेषु क्षेत्रेषु च सत्तारूढ दलाय अधिकः लाभः भविष्यति।

हिन्दुस्थान समाचार