गतवर्षेषु 12 वर्षेषु देशः प्रधानमंत्रिणो मोदिनो नेतृत्वे अभूतपूर्व प्रगतिः कृता : गजेन्द्र सिंह शेखावतः
जोधपुरम्, 27 फरवरीमासः (हि.स.)। गजेन्द्र सिंह शेखावतः उक्तवान् यत् नरेन्द्र मोदिनो नेतृत्वे गतद्वादशवर्षेषु देशेन अभूतपूर्वा प्रगतिः कृता। तेन उक्तं यत् एकस्मिन् पक्षे भारतस्य सामरिकशक्तिः अत्यन्तं वर्धिता, अपरस्मिन् पक्षे रक्षासामग्रीणां स्वदेशीन
jodhpur


जोधपुरम्, 27 फरवरीमासः (हि.स.)। गजेन्द्र सिंह शेखावतः उक्तवान् यत् नरेन्द्र मोदिनो नेतृत्वे गतद्वादशवर्षेषु देशेन अभूतपूर्वा प्रगतिः कृता। तेन उक्तं यत् एकस्मिन् पक्षे भारतस्य सामरिकशक्तिः अत्यन्तं वर्धिता, अपरस्मिन् पक्षे रक्षासामग्रीणां स्वदेशीनिर्माणक्षमता अपि शीघ्रं विकसितवती।

केन्द्रीयसंस्कृत्याः पर्यटनस्य च मन्त्री शुक्रवासरे दिल्ली नगरात् जोधपुर नगरं प्राप्तवान् तथा स्वनिवासस्थाने गण्यमान्यजनैः सह मिलितवान्। माध्यमप्रतिनिधिभिः सह संवादे सः अवदत् यत् पूर्वं भारतः रक्षाक्षेत्रे विश्वस्य महत्तमेषु आयातकदेशेषु गणितः आसीत्, किन्तु अधुना निर्यातकदेशत्वं प्रति द्रुतगत्या अग्रे गच्छति। तेन उक्तं यत् तेजस युद्धविमानात् आरभ्य प्रक्षेपास्त्राणि बुलेटप्रूफजैकेटपर्यन्तं सर्वं भारतदेशे एव निर्मीयते।

मन्त्रिणा उक्तं यत् राष्ट्रपतेः उपस्थितौ भवितव्यं वायुसेनायाः प्रदर्शनं देशस्य उच्चतमसैन्यसामर्थ्यस्य परिचायकं भविष्यति। सीमावर्तीक्षेत्रे एतादृशस्य आयोजनस्य कारणेन तत्र निवसतां जनानां भारतस्य शक्तौ सामर्थ्ये च विश्वासः अधिकं दृढीभविष्यति।

आतङ्कवादविषये शेखावतः अवदत् यत् प्रधानमन्त्रीमोदी महोदयेन “जीरोटॉलरेंस” नीति: स्वीकृता अस्ति, एषा नीति: वैश्विकस्तरे अपि प्रवर्तते। अद्य ये देशाः पूर्वं आतङ्कवादं प्रोत्साहितवन्तः आसन्, ते अपि तस्य विरुद्धं कठोरं दृष्टिकोणं स्वीकुर्वन्ति इति तेन निर्दिष्टम्।

शेखावतः तृणमूल कांग्रेस दलस्य विषये अपि तीक्ष्णं प्रहारं कृतवान्। तेन उक्तं यत् आगामिनिर्वाचने पश्चिम बंगाल राज्ये टीएमसी दलस्य पूर्णपराजयः भविष्यति। अपि च भारतीय जनतादलस्य एषः सङ्कल्पः अस्ति यत् बंगालराज्यं सहित्य कस्यापि राज्ये अपि एकः अपि अवैधप्रवेशिना उसितव्यः।

---

हिन्दुस्थान समाचार