Enter your Email Address to subscribe to our newsletters

गुरु जम्भेश्वर
विश्वविद्यालये एआईएसएचई (ऐशे)प्रदत्तानां गुणवत्तायाः अनुपालनस्य च कार्यशाला आयोजिता
हरियाणायाः विभिन्नजिल्लासु 120 प्रतिभागिनः अगृह्णन् भागम्
हिसारः, 27 फरवरीमासः (हि.स.)।
गुरु जम्भेश्वर विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय इत्यत्र एआईएसएचई डाटा-क्वालिटी अनुपालन-विषये एकदिवसीया कार्यशाला आयोजिता। अस्यां कार्यशालायां हरियाणा राज्यस्य विविधजनपदेभ्यः प्रायः १२० प्रतिभागिनः सहभागिनः अभवन्।
कार्यशालायां विश्वविद्यालयस्य कुलपतेः तकनीकी-सलाहकारः प्रशासनिकविषये प्रो. विनोद छोकर मुख्यातिथिरूपेण उपस्थितः आसीत्। उच्चतर शिक्षा निदेशालय हरियाणा इत्यस्य उपनिदेशिका तथा एआईएसएचई इकायाः राज्य-नोडल-अधिकारिणी डॉ. वीना रानी विशिष्टातिथिः मुख्यवक्त्री च आसीत्। तदतिरिक्तं पंचकूला-स्थितस्य उच्चतरशिक्षानिदेशालयस्य शोधाधिकारी अशोककुमार अपि उपस्थितः आसीत्। कार्यशालायाः अध्यक्षतां समन्वयकः एआईएसएचई-निदेशकः मुकेश अरोड़ा अकरोत्।
मुख्यातिथिः प्रो. विनोद छोकर स्वसम्बोधने कार्यशालायाः आयोजनार्थं अभिनन्दनं दत्त्वा उक्तवान् यत् एतादृशकार्यशालाभिः प्रतिभागिनां कौशलविकासः भवति तथा ते एआईएसएचई-पोर्टल-विषये महत्त्वपूर्णां जानकारीं प्राप्नुवन्ति।
मुख्यवक्त्री डॉ. वीना रानी एआईएसएचई-पोर्टले डाटा-शुद्धतायाः समयबद्ध-अपलोडिंगस्य च महत्त्वं प्रकाशितवान्।
कार्यशाला-समन्वयकः मुकेश अरोड़ा स्वागतोपोद्घाते सर्वान् अतिथीन् प्रतिभागिनः विश्वविद्यालय-महाविद्यालयानां नोडल-अधिकारिणः च स्वागतं कृतवान्। तेन उक्तं यत् कार्यशालायाः मुख्योद्देश्यः नोडल-अधिकारिणः एआईएसएचई-वेब-पटले सम्यक् सटीकं च डाटा-अपलोडनाय प्रशिक्षयितुम् आसीत्। कार्यशालायाः सफलायोजने विश्वविद्यालयस्य पीडीयूसीआईसी-कर्मचारिणां विशेषयोगदानम् आसीत्।
कार्यशालाकाले प्रतिभागिभ्यः डीसीएफ-फॉर्मेट-पूर्तेः पटले डाटा-अपलोडनस्य च सम्बन्धे संस्थायाः मूलभूत-सूचना, शिक्षकाणां विवरणम्, अशिक्षक-कर्मचारिणां विवरणम्, विविधसंकाय-विभाग-केन्द्रेषु सञ्चालितकार्यक्रमाणां विवरणम्, तेषु नामाङ्कितविद्यार्थिनां सूचना, प्रत्येककार्यक्रमस्य अन्तिमवर्ष-परीक्षा-परिणामाः, विविधमदेषु प्राप्तयः व्ययसम्बद्धा वित्तीय-जानकारी, उपलब्धाधारभूत-संरचना, छात्रवृत्ति, ऋण, मान्यता-सम्बद्धा च सूचना प्रदत्ता। अन्ते सिस्टम-एनालिस्ट नवीन सांगवान धन्यवादं ज्ञापितवान् तथा उक्तवान् यत् अस्मात् प्रशिक्षणात् नोडल-अधिकारिणः एआईएसएचई-पोर्टले गुणवत्तापूर्णं निर्दोषं च डाटा-अपलोडनकर्तुं सक्षमाः भविष्यन्ति।
हिन्दुस्थान समाचार