Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 28 फरवरीमासः (हि.स.)।
आगामि-विधानसभा-निर्वाचनात् पूर्वं भारतीय-जनतादलम् इति भाजपा अद्य प्रभृति असम-राज्ये राज्यव्यापिनीं ‘जन-आशीर्वाद-यात्राम्’ आरब्धवत्। एषा यात्रा जन-सम्पर्क-अभियानस्य अन्तर्गतं आयोजिताऽस्ति, यस्य मुख्य-उद्देश्यं राज्यस्य सर्वेषु भागेषु जनैः सह प्रत्यक्ष-संवाद-स्थापनम् अस्ति।
अद्य अस्याः यात्रायाः शुभारम्भः मुख्यमन्त्रिणः डॉ हिमन्त बिस्व सरमा महोदयस्य उपस्थितौ शोणितपुर-जिल्हायाः ढेकियाजुली-विधानसभा-क्षेत्रे स्थितात् गुप्तेश्वर-मन्दिरात् कृतः। भाजपा-दलेन अस्मिन् अभियाने प्रतिदिनं प्रायः एक-लक्ष-जनानां सम्पर्क-साधनस्य लक्ष्यं निर्धारितम्। अस्य प्रथम-चरणः २८ फरवरी-दिनात् ९ मार्च-दिनपर्यन्तं भविष्यति, यस्मिन् समग्रतया ३४ विधानसभा-क्षेत्राणि समाविष्टानि सन्ति।
प्रदेश-भाजपा-अध्यक्षः दिलीप सैकिया अवदत् यत् अस्याः यात्रायाः प्रमुख-उद्देश्यं राज्यस्य सामान्य-जनैः सह व्यापक-सम्पर्क-स्थापनम् तथा दलस्य उपलब्धयः लक्ष्याणि भविष्य-योजनाश्च जनसमक्षं प्रस्तोतुम् अस्ति। तेन उक्तं यत् प्रथम-चरणे ३४ विधानसभा-क्षेत्राणि आच्छादितानि भविष्यन्ति।
सः अपि अवदत् यत् अस्याः पहलस्य लक्ष्यं भूमिस्तरे संगठनस्य सुदृढीकरणम् तथा विधानसभा-निर्वाचनात् पूर्वं जन-समर्थनस्य एकत्रीकरणम् अस्ति।
हिन्दुस्थान समाचार