मुख्यमंत्रिणा अद्य बिलासपुरभ्रमणे ,वृहद्कृषकसम्मेलने भागो गृहीतः
रायपुरम्, 28 फ़रवरीमासः (हि.स.)।छत्तीसगढ़स्य मुख्यमन्त्री विष्णु देव साय अद्य शनिवासरे, २८ फरवरी २०२६ तमे दिने बिलासपुरनगरस्य प्रवासे भविष्यति। सः बिल्हा इत्यस्मिन् स्थाने आयोजिते “कृषक उन्नति योजना” अन्तर्गत आदान सहायता राशि वितरण समारोह तथा वृहद
छत्तीसगढ़ के मुख्यमंत्री विष्णु देव साय ,फाइल फोटो


रायपुरम्, 28 फ़रवरीमासः (हि.स.)।छत्तीसगढ़स्य मुख्यमन्त्री विष्णु देव साय अद्य शनिवासरे, २८ फरवरी २०२६ तमे दिने बिलासपुरनगरस्य प्रवासे भविष्यति।

सः बिल्हा इत्यस्मिन् स्थाने आयोजिते “कृषक उन्नति योजना” अन्तर्गत आदान सहायता राशि वितरण समारोह तथा वृहद् किसान सम्मेलन च भागं गृह्णाति।

निर्धारित कार्यक्रमानुसार सः प्रातः ११:३० वादने मुख्यमंत्री निवासात् सिविल लाइन रायपुरतः प्रस्थितः भविष्यति तथा ११:४० वादने श्री बालाजी कैंसर हॉस्पिटल मोवा इत्यत्र आगमिष्यति। ततः अपराह्णे १२:३० वादने चिकित्सालयात् निर्गत्य १२:४० वादने स्वामी विवेकानंद विमानक्षेत्रं प्राप्स्यति तथा १:०० वादने राज्यविमानेन बिलासपुरं प्रति प्रस्थितः भविष्यति।

सः १:१० वादने बिलासा देवी केवट विमानक्षेत्रं बिलासपुरम् आगत्य १:२० वादने तस्मात् निर्गत्य विकासखण्ड बिल्हा अन्तर्गत ग्रामपञ्चायत रहंगी स्थित क्रीडाङ्गणे आयोजिते कार्यक्रमे सहभागी भविष्यति। तत्र ३:५० वादने कृषक उन्नति योजना अन्तर्गत आदान सहायता राशि वितरण समारोह तथा वृहद् किसान सम्मेलन च सम्पन्नं भविष्यति।

कार्यक्रमस्य अनन्तरं सः ४:०० वादने पुनः बिलासा देवी केवट विमानक्षेत्रं गत्वा ४:१० वादने रायपुरं प्रति प्रस्थितः भविष्यति। ४:३० वादने स्वामी विवेकानंद विमानक्षेत्रे रायपुरम् आगत्य ५:०० वादने मुख्यमंत्री निवासं प्रत्यागमिष्यति।

सायं ६:३० वादने पुनः निवासात् निर्गत्य ६:३५ वादने बुढापारा स्थित इन्डोर स्टेडियम् आगमिष्यति तथा ७:३५ वादने तस्मात् निर्गत्य ७:४० वादने मुख्यमंत्री निवासं प्रत्यावर्तिष्यति।

प्रशासनम् अस्य प्रवासस्य संदर्भे आवश्यक व्यवस्थाः सम्पन्नाः इति सूचितम्।

हिन्दुस्थान समाचार