कमला–नेहरू–महोदया तथा डॉ.राजेन्द्र–प्रसाद–महोदययोः पुण्यतिथ्यवसरे मुख्यमन्त्री सुक्खू श्रद्धापूर्वकं नमनं कृतवान्
शिमलानगरम्, २८ फरवरीमासः (हि.स.)। मुख्यमन्त्री ठाकुरसुखविन्द्रसिंह: सुक्खू महान्तं स्वाधीनता–सेनानीं समाजसेविकां कमलानेहरूं एतयो: पुण्यतिथ्यवसरे श्रद्धापूर्वकं नमनं कृतवान्। मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् स्वाधीनता–संग्रामे महिलानां जागरणाय,
कमला–नेहरू–महोदया तथा डॉ.राजेन्द्र–प्रसाद–महोदययोः पुण्यतिथ्यवसरे मुख्यमन्त्री सुक्खू श्रद्धापूर्वकं नमनं कृतवान्


शिमलानगरम्, २८ फरवरीमासः (हि.स.)। मुख्यमन्त्री ठाकुरसुखविन्द्रसिंह: सुक्खू महान्तं स्वाधीनता–सेनानीं समाजसेविकां कमलानेहरूं एतयो: पुण्यतिथ्यवसरे श्रद्धापूर्वकं नमनं कृतवान्।

मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् स्वाधीनता–संग्रामे महिलानां जागरणाय, संगठनाय, अग्रणी–भूमिकायां च स्थापने कमला–नेहरू–महोदयायाः योगदानम् अद्वितीयं प्रेरणादायकं च आसीत्। राष्ट्रं तस्याः त्यागं, समर्पणं राष्ट्रभक्तिं च सदा सम्मानपूर्वकं कृतज्ञतया स्मरिष्यति इति अपि तेन उक्तम्।

मुख्यमन्त्रिणा महान् स्वाधीनता–सेनानीं भारतस्य प्रथमं राष्ट्रपतिं ‘भारत–रत्न’ विभूषितं डॉ.राजेंद्रप्रसादस्य पुण्यतिथ्यवसरे अपि कोटि–कोटि नमनं कृतम्।

तेन उक्तं यत् स्वाधीनता–संग्रामे डॉ.राजेन्द्र–प्रसादस्य योगदानम् अविस्मरणीयम् अस्ति। स्वतन्त्र–भारत–निर्माणे तस्य मार्गदर्शनम्, शालीनता, संवैधानिक–मूल्येषु दृढा निष्ठा, राष्ट्र–निर्माणस्य दूरदृष्टिश्च देशेन सदा कृतज्ञतया स्मर्यते। मुख्यमन्त्री अवदत् यत् तस्य जीवनं आदर्शाश्च अग्रिम–वंशान् राष्ट्रसेवायै सततं प्रेरयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता