Enter your Email Address to subscribe to our newsletters


रायपुरनगरम्/बिलासपुरनगरम्, २८ फरवरीमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः अद्य शनिवासरे बिल्हा–विकासखण्डस्य रहङ्गी–ग्रामे कृषक–उन्नति–योजना–अन्तर्गतं आयोजिते आदान–सहायता–राशि–वितरण–समारोहे तथा वृहद् कृषक–सम्मेलने प्रदेशस्य २५.२८ लक्ष–कृषकाणां धनागारेषु १०,३२४ कोटि–रूप्यकाणां अधिका राशिम् अन्तरितवान्। एतेषु बिलासपुर–जनपदस्य १,२५,३५२ कृषकाः अपि अन्तर्भवन्ति, येषां धनागारेषु ४९४.३८ कोटि–रूप्यकाणां राशि: प्रदत्ता।
मुख्यमन्त्री जनपदस्य विकासं नूतनां गतिं दत्त्वा १५.९९ कोटि–व्यये सम्पन्नानां ७ विकास–कार्याणां लोकार्पणं कृतवान्, तथा २४७.१८ कोटि–व्यये ८२ विकास–कार्याणां शिलान्यासं च अकरोत्। कार्यक्रमे मुख्यमन्त्री–सहितानां अतिथिनां खुमरी–नाङ्गर–साक्षात्कारेण सम्मानं कृतम्। अस्मिन्नेव अवसरे “कृषक–उन्नति–योजनायाः वरदानम्, छत्तीसगढस्य प्रत्येकं कृषकः धनवान्” इति विषयाधारितस्य दृश्य–माध्यमस्य विमोचनमपि अभवत्।
मुख्यमन्त्री अवदत् यत् अद्यतनः दिवसः कृषक–भ्रातॄणां सम्मान–दिवसः अस्ति। प्रदेशे २५ लक्ष २८ सहस्राधिकैः कृषकैः धान्य–विक्रयः कृतः, तथा कृषक–उन्नति–योजनाया माध्यमेन अद्य १० सहस्र–कोटि–रूप्यकाणां अधिका राशि: कृषकाणां धनागारेषु अन्तरिता। होलिकोत्सवं सुहृद्रूपेण आचरितुं शक्नुयुः इति हेतोः होलिकोत्सवात् पूर्वमेव एषा राशि: प्रदत्ता इति तेन उक्तम्।
सः अवदत् यत् शून्य–प्रतिशत–व्याजदरेण कृषकाणां कृते ऋण–सुविधा उपलब्धा कृता, अद्य च लक्षाधिकाः कृषकाः कृषक–क्रेडिट–पत्रस्य लाभं लभन्ते। प्रदेशे धान्यस्य सर्वाधिक–मूल्य–प्रदान–व्यवस्था अस्ति, या अन्यत्र न दृश्यते इति तेन प्रतिपादितम्।
मुख्यमन्त्री अवदत् यत् भूमिहीन–कृषि–श्रमिकाणां धनागारेष्वपि राशि: अन्तरिता भवति। खाद्य–अनुदानम्, सिंचन–सुविधानां विस्तारः, कृषक–समृद्धये सर्वस्तरीय–प्रयत्नाः, सहकारितायाः लाभकारी–करणाय प्रयासाश्च सततं क्रियन्ते।
कार्यक्रमे मुख्यमन्त्रिणा केचन महत्वपूर्णाः घोषणाः अपि कृताः—चकरभाटके प्राथमिक–स्वास्थ्य–केन्द्रस्य सामुदायिक–स्वास्थ्य–केन्द्रे उन्नयनम्, मङ्गलायां माध्यमिक–विद्यालयस्य उच्च–विद्यालये उन्नयनम्, रहङ्गी–क्रीडाङ्गणे परिधि–भित्तेः तथा मञ्च–निर्माणस्य च घोषणा। तथैव सतनामी–समाजस्य सामुदायिक–भवनाय ५० लक्ष–रूप्यकाणि, प्रस्तरनिर्माण्यां आदिवासी–समाजस्य सामुदायिक–भवनाय अपि ५० लक्ष–रूप्यकाणि प्रदातुं घोषणा कृता।
कृषि–मन्त्री रामविचार–नेतामः कार्यक्रमं सम्बोधयन् अवदत् यत् कृषक–उन्नति–योजनायाः लाभ–प्रदानाय मुख्यमन्त्री कृषकानां मध्ये आगतः—एतत् क्षणं ऐतिहासिकम्। सः कृषकान् प्रोत्साहयन् अवदत् यत् धान्यापेक्षया दलहन–तिलहन–उत्पादने अधिकः लाभः अस्ति, अतः फसल–विविधीकरणं स्वीकर्तव्यम्। नवाचारैः परिवर्तनैश्च एव कृषक–जीवने समृद्धिः सम्भवति। दुग्ध–उत्पादनस्य, मत्स्य–पालनस्य च संवर्धनाय अपि कार्ययोजना क्रियते इति तेन उक्तम्।
बिल्हा–विधायकः धरमलाल–कौशिकः कृषकान् स्वागतं कृत्वा अवदत् यत् मुख्यमन्त्री कृषकाणां दुःखं परिश्रमं च अवगच्छति, तथा होलिकोत्सवात् पूर्वं परिश्रम–फलरूपा सौगात् दातुं स्वयमेव आगतः।
मुख्यमन्त्री आभासी–माध्यमेन प्रदेशस्य कृषक–हितग्राहिभिः सह संवादमपि कृतवान्। जगदलपुरस्य महिला–हितग्राही बसन्ती–कश्यपः अवदत् यत् तस्याः धनागारे ३६ सहस्र–रूप्यकाणि प्राप्तानि, येन सा होलिकोत्सवं सम्यक् आचरिष्यति। कोरबा–जनपदस्य पहाड़ी–कोरवा–हितग्राही सुखन–सायः अवदत् यत् तेन ७३ क्विण्टल–धान्यं विक्रीतं, ५३ सहस्र–रूप्यकाणि च प्राप्तानि, तानि गृह–निर्माणे विनियोजयिष्यति। जांजगीर–जनपदस्य कृषकः समर्थ–सिंहः अवदत् यत् तस्मै १ लक्ष ४१ सहस्र–रूप्यकाणां अन्तर–राशिः प्राप्ता, यस्य कृते सः मुख्यमन्त्रिणं धन्यवादं अकरोत्। कार्यक्रमे विविध–विभागैः स्थापितानां स्तम्भानां (स्टॉलानां) निरीक्षणमपि कृतम्।
अत्र बहवः जनप्रतिनिधयः, अधिकारी–कर्मचारिणः तथा ग्रामीणाः बहुसंख्यया उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता