Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ फरवरीमासः (हि.स.)। गर्भाशय–ग्रीवा–कर्कट–निवारणार्थं अद्य आरब्धं टीकाकरण–कार्यक्रमं समर्थयन्तः स्वास्थ्य–क्षेत्रे सक्रियाणि अनेकानि सङ्घटनाः संयुक्तं परामर्शं प्रकाशितवन्तः। अस्मिन् उपक्रमे भारतीय-बाल-रोग-अकादमी, भारतीय-चिकित्सा-संघ, भारतीय-प्रसूति एवं स्त्रीरोग-सोसायटी-संघ, भारतीय-निवारक एवं सामाजिक-चिकित्सा-संघ, भारतीय-जन-स्वास्थ्य-संघ तथा-स्टिलबर्थ-सोसायटी ऑफ-इंडिया इत्येतानि सङ्घटनानि सम्मिलितानि सन्ति।
एतेषां सङ्घटनानां कथनम् अस्ति यत् एचपीवी–टीका तैः विषाणु–प्रकारैः जन्यमानं संक्रमणं निरोद्धुं समर्था भवति, येषु बहुषु गर्भाशय–ग्रीवा–कर्कटस्य कारणं दृश्यते। अस्यां टीकायां जीवित–विषाणुः नास्ति, अतः सा संक्रमणं जनयितुं न शक्नोति। एचपीवी–टीकायाः वन्ध्यत्वेन सह सम्बन्धं दर्शयति इति कश्चन वैज्ञानिकः प्रमाणः नास्ति—इति स्पष्टं कृतम्। संयुक्त–राज्य–अमेरिकायां प्रदत्तानां १३.५ कोट्यधिक–मात्राणां सहितं वैश्विक–सुरक्षा–दत्तांशः अस्याः दृढ–सुरक्षां पुष्टयति। एषा टीका ९–१४ वर्षेषु सर्वाधिकं प्रभावी भवति; १६० अधिकेषु राष्ट्रेषु एचपीवी–टीका राष्ट्रीय–कार्यक्रमेषु समाविष्टा अस्ति।
सन्देशे अधिकं निगदितं यत् येषु राष्ट्रेषु टीकाकरण–कार्यक्रमाः प्रवर्तिताः, तेषु गर्भाशय–ग्रीवा–कर्कटे उल्लेखनीयः न्यूनभावः दृष्टः। सर्वकारः १४ वर्षपर्यन्तं सर्वासां कन्यानां कृते एचपीवी–टीकां निःशुल्कं प्रददाति; अतः स्वास्थ्य–संस्थाभिः सर्वे लाभार्थिनः प्रोत्साहनीयाः। तदनन्तरं स्त्रीभ्यः नियमितं गर्भाशय–ग्रीवा–कर्कट–परीक्षणं कर्तुं, प्रमाणित–वैद्यकीय–सार्वजनिक–स्वास्थ्य–सूचनायां च विश्वासं कर्तुं, समुदायेषु टीकाकरण–जागरूकता–प्रयासान् समर्थयितुं च उपदिष्टम्।
अन्ते अवदत् यत् गर्भाशय–ग्रीवा–कर्कटः भारते स्त्रीणां मध्ये सामान्यतमेषु कर्कटेषु एकः अस्ति। विश्वस्तरे २०२२ तमे वर्षे निम्न–मध्यम–आय–देशेषु प्रायः ३.५ लक्ष–स्त्रीणां मृत्यवः अस्य रोगस्य कारणेन अभवन्। ग्लोबोकैन–प्रतिवेदनानुसारं २०२२ तमे वर्षे भारते १.२७ लक्षाधिकानि नूतन–प्रकरणानि तथा प्रायः ८० सहस्र–मृत्यवः अभिलेखिताः। बहूनि प्रकरणानि मानव–पैपिलोमा–विषाणो: दीर्घकालीन–संक्रमणेन एव जायन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता