Enter your Email Address to subscribe to our newsletters

- विधानमंडले संशोधनस्य याचनाकर्त्री यभी चिका समंकिता- स्वाधीनता संग्रामम् ‘उठाव’इति उक्ते सति अंकिताआपत्तिः
नागपुरम्, 28 फरवरीमासः (हिं.स.)। महाराष्ट्रशासनस्य मराठीविश्वकोशमण्डलेन प्रकाशिते मराठीविश्वकोशे १८५७ तमे वर्षे जातस्य स्वाधीनतासङ्ग्रामस्य ‘उठाव’ (विद्रोहः) इति उल्लेखनस्य विषयेन राज्ये विवादः अधिकं गम्भीरः जातः अस्ति। स्वाधीनतासेनानिनां योगदानस्य अवमानः कृतः इति आरोपं कृत्वा पत्रकारितासाहित्यसांस्कृतिकसामाजिकक्षेत्रेषु सम्बद्धाः अनेकाः व्यक्तयः राज्यविधानमण्डलस्य पीठासीनाधिकारिणां समक्षं संशोधनार्थं याचिकां दत्तवन्तः।
याचिकायां उक्तं यत् १८५७ तमे वर्षे जातः संघर्षः केवलं ‘उठाव’ अथवा ‘विद्रोहः’ न आसीत्, किन्तु भारतस्य स्वातन्त्र्यार्थं कृतः प्रथमः सशस्त्रः स्वाधीनतासङ्ग्रामः आसीत्। अस्य सन्दर्भे क्रान्तिचिन्तकस्य विनायक दामोदर सावरकर इत्यस्य लिखिता 1857 चे स्वातंत्र्यसमर नाम्नी पुस्तिका अपि उल्लिखिता, यस्याम् एषः संघर्षः स्पष्टतया स्वाधीनतासङ्ग्रामः इति निरूपितः अस्ति।
याचिकाकर्तॄणां मते मराठीविश्वकोशस्य खण्ड-१ तथा खण्ड-१८ मध्ये एषा ऐतिहासिकी घटना ‘अठराशे सत्तावनचा उठाव’ इति नाम्ना निर्दिष्टा अस्ति, अन्यत्र ‘विद्रोहः’ इति, क्वचित् ‘स्वाधीनतासङ्ग्रामः’ इति च उल्लिखिता। एषः असंगतः उल्लेखः इतिहासस्य प्रति अन्यायः इति उक्तम्।
स्वाधीनतासेनानिनां उल्लेखे अपि आपत्तिः व्यक्ता। विशेषतः रानी लक्ष्मीबाई, नाना साहेब, तात्या टोपे इत्यादीनां महानां स्वाधीनतासेनानिनां एकवचनरूपेण उल्लेखनं अनुचितम् इति प्रतिपादितम्। देशार्थं परमं बलिदानं दत्तवन्तः एते वीराः सम्मानपूर्वकं यथोचितसन्दर्भेण उल्लिखनीयाः इति याचिकायाम् अभिहितम्।तथा झांसीराज्ञ्याः शौर्यं, तात्याटोपेः बलिदानं, १८५७ तमे वर्षे संघर्षस्य वीरगाथा च वसंत वरखेडकर इत्यस्य कृतौ सत्तावनचा सेनानी विस्तरेण वर्णितम् इति अपि याचिकायां निर्दिष्टम्।
नागपुरनगरस्य वरिष्ठपत्रकारेण अविनाश पाठक इत्यनेन नेतृत्वे एषा याचिका महाराष्ट्रविधानसभाध्यक्षाय राहुल नार्वेकर तथा विधानपरिषदः सभापतये राम शिंदे समर्पिता। अस्य प्रकरणस्य गम्भीरतां दृष्ट्वा याचिकायाः प्रतिलिपयः मुख्यमन्त्रिणे देवेंद्र फडणवीस, उपमुख्यमन्त्रिणे सुनेत्रा पवार, उपमुख्यमन्त्रिणे एकनाथ शिंदे तथा मराठीभाषामन्त्रिणे उदय सामंत अपि प्रेषिताः।
याचिकाकर्तारः अवदन् यत् ऐतिहासिकघटनानां संज्ञायाः सन्दर्भस्य च परिवर्तनं राष्ट्रियस्वाभिमानस्य आघातसमानम्। तेषां आग्रहः अस्ति यत् मराठीविश्वकोशस्य आगामिषु संस्करणेषु तथा आधिकारिकजालपुटे १८५७ तमे वर्षे संघर्षः स्पष्टतया ‘स्वाधीनतासङ्ग्रामः’ इति निर्दिश्यताम्, स्वाधीनतासेनानिनां सम्मानपूर्णः उल्लेखः च सुनिश्चितः क्रियताम्।अधुना अस्मिन् संवेदनशीलविषये राज्यसरकारः तथा विधानमण्डलं किं निर्णयं करिष्यतः इति विषये सर्वेषां दृष्टयः केन्द्रिताः सन्ति।-------------------
हिन्दुस्थान समाचार