बोत्स्वानातः अद्य मध्यप्रदेशम् आगमिष्यन्ति अष्ट व्याघ्राः, केन्द्रियमन्त्री भूपेन्द्रयादवः कूनो इत्यत्र करिष्यन्ति मुक्तम्
भोपालम्, 28 फरवरीमासः (हि.स.)। बोत्सवाना देशात् अष्ट चीतकाः अद्य मध्य प्रदेश राज्यं प्रति आगच्छन्ति। केन्द्रीय-वनमन्त्री भूपेन्द्र यादव एतान् चीतकान् कूनो राष्ट्रिय उद्यान इत्यस्य बाड़े मोचयिष्यति। अनेन सह भारते चीतकानां संख्या ३९ इत्यस्मात् ४७ इ
चीता प्रोजेक्ट (फाइल फोटो)


भोपालम्, 28 फरवरीमासः (हि.स.)।

बोत्सवाना देशात् अष्ट चीतकाः अद्य मध्य प्रदेश राज्यं प्रति आगच्छन्ति। केन्द्रीय-वनमन्त्री भूपेन्द्र यादव एतान् चीतकान् कूनो राष्ट्रिय उद्यान इत्यस्य बाड़े मोचयिष्यति। अनेन सह भारते चीतकानां संख्या ३९ इत्यस्मात् ४७ इति वर्धिष्यते।

जनसम्पर्क-अधिकारी के.के. जोशी इत्यनेन उक्तं यत् ‘चीता-प्रोजेक्ट्’ अन्तर्गतं श्योपुर-जिले स्थिते कूनो-राष्ट्रीय-उद्यानस्य कृते अफ्रीका-महाद्वीपात् तृतीयः प्रमुखः चीतक-समूहः आगच्छति। बोत्सवाना देशात् विमानमार्गेण आनिताः अष्ट चीतकाः (षट् मादाः, द्वौ नरौ) विशेष-विमानेन अद्य मध्यप्रदेशं नीयन्ते। कूनो पुनरपि इतिहासं निर्मातुं सज्जः अस्ति। अफ्रीका-भूमेः आगताः एते शीघ्रगामिनः धावकाः कूनो-वनप्रदेशस्य पारिस्थितिक-संतुलनं समृद्धयिष्यन्ति।

निर्धारित-कार्यक्रमानुसारं मन्त्री यादव प्रातः नूतन-दिल्ली-नगरात् विशेष-विमानेन प्रस्थित्य राजमाता विजयाराजे सिंधिया एयरपोर्ट इत्यत्र आगमिष्यति। ततः हेलिकॉप्टरयानं समारुह्य कूनो-राष्ट्रीय-उद्यानं गमिष्यति तथा प्रातः प्रायः १० वादने चीतकान् उद्याने मोचयिष्यति। अनन्तरं सः पुनः ग्वालियर-नगरं प्रति प्रस्थितः भविष्यति।

बोत्सवाना-देशात् चीतकानां सुरक्षित-अनावर्तनं, आव्रजन-शुल्क-सीमा-शुल्क-पशु-चिकित्सा-सुरक्षा-सम्बद्धाः सर्वाः औपचारिकताः सम्पन्नाः कृत्वा प्रातः ८:३० वादने ग्वालियर नगरात् भारतीय-वायुसेनायाः द्वाभ्यां हेलिकॉप्टरयानाभ्यां कूनो-राष्ट्रीय-उद्यानं प्रति प्रेषयिष्यन्ति। प्रातः ९:३० वादने चीतकाः कूनो-उद्यानं प्राप्स्यन्ति। तेषां सुरक्षित-अवतरणार्थं उद्याने पञ्च हेलिपदाः निर्मिताः सन्ति। सम्पूर्णं अभियानं वैज्ञानिक-प्रोटोकॉल-अनुसारं सावधानतया सम्पन्नं भविष्यति। उद्याने बाड़ाः सज्जीकृताः सन्ति, यत्र चीतकाः प्रायः एकमासपर्यन्तं क्वारन्टीन-अवस्थायां स्थास्यन्ति।

श्योपुर-जिले स्थिते कूनो-राष्ट्रीय-उद्यानस्य सीमायां राजस्थान राज्यस्य सीमा अस्ति। अस्मिन् उद्याने नरेन्द्र मोदी द्वारा १७ सितम्बर २०२२ तिथौ ‘प्रोजेक्ट् चीता’ आरब्धः। एषा योजना अधुना सफलताम् प्रति अग्रे गच्छति। वर्तमानकाले भारते ३९ चीतकाः सन्ति; एतेषां आगमनेन संख्या ४७ भविष्यति। कूनो-उद्यानस्य वनप्रदेशः चीतक-प्रजननाय अनुकूलः सिद्धः।

अरावली-पर्वत-शृङ्खलया परिवृतः कूनो-राष्ट्रीय-उद्यानः स्वाभाविक-सौन्दर्येन नूतन-अतिथीनां स्वागताय सिद्धः अस्ति। अस्य मध्ये वहन्ती कूनो-नदी उद्यानस्य शोभां वर्धयति। तस्य विस्तीर्णेषु तटेषु सूर्यकिरणेषु क्रीडन्तः मकराः आगन्तुकान् आनन्दयन्ति।

अस्मिन् उद्याने १७४ पक्षि-प्रजातयः, शतशः वन्यजीव-प्रजातयः च दृश्यन्ते। तासु १२ पक्षि-प्रजातयः दुर्लभ-वर्गे गणिताः। १९५२ वर्षे भारतदेशे एशियाई-चीतकानां विलुप्तेः अनन्तरं पुनः तेषां स्थापना-योजना प्रवर्तिता आसीत्। २००९ वर्षे गजनेर इत्यत्र चीत-विशेषज्ञ-सम्मेलनं सम्पन्नम्, यत्र दक्षिण-अफ्रीकी-चीतकानां भारत-आगमनस्य अनुशंसा कृता।

भारत-सरकारस्य पर्यावरण-वन-मन्त्रालयस्य निर्देशेन २०१० वर्षे भारतीय वन्य जीव संस्थान द्वारा संभाव्य-क्षेत्राणां सर्वेक्षणं कृतम्। तस्मिन् सर्वेक्षणे नौरादेही अभयारण्य, कूनो-पालपुर-अभयारण्यं, तथा शाहगढ़ इत्येतानि उपयुक्तानि निर्दिष्टानि; तेषु अपि कूनो-क्षेत्रं सर्वाधिक-उपयुक्तं निर्दिष्टम्।

‘प्रोजेक्ट् चीता’ अधुना प्रारम्भिक-चरणात् अग्रे गत्वा स्थायी-स्थापनायाः सफल-प्रजननस्य च चरणे प्रविष्टः। दक्षिण-अफ्रीकादेशात् आनितेषु १२ चीतकेषु ८ स्वस्थाः स्थापिताः सन्ति; तेषु त्रयः गांधी सागर अभयारण्य इत्यत्र सफलतया स्थानान्तरिताः। दक्षिण-अफ्रीकी-जनन्यः जाताः १० शावकाः स्वस्थाः सन्ति। भारतदेशे जाता प्रथम-वयस्का मादा-चीतका ‘मुखी’ पञ्च शावकान् अजनयत्। ‘गामिनी’ द्वितीयवारं माता जाता; तस्याः त्रयः उपयुवा-शावकाः स्वस्थाः सन्ति, तथा पुनः त्रयः नव-शावकाः जाता। ‘वीरा’ स्वस्य त्रयोदश-मासीय-शावकेन सह मुक्त-वनप्रदेशे विचरति, ‘निर्वा’ च दश-मासीय-त्रिभिः शावकैः सह संरक्षित-बाड़े वर्तते। वर्तमानकाले भारते ३९ चीतकाः सन्ति—तेषु ३६ कूनो-राष्ट्रिय-उद्यानस्थाः, त्रयः गांधी-सागर-अभयारण्ये स्थिताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता