Enter your Email Address to subscribe to our newsletters

गुना, 28 फरवरीमासः (हि.स.)।
मध्यप्रदेशस्य गुना-जिल्हायां अद्य शनिवासरात् संभाग-स्तरीया पुष्प-प्रदर्शनी भव्यतया आयोज्यते। स्थानीय-मानस-भवने आयोजितायां अस्यां द्विदिवसीय-प्रदर्शनीमध्ये पॉलीहाउस-पद्धत्या उत्पादितानि उत्कृष्टानि अन्ताराष्ट्रिय-गुणवत्तायुक्तानि गुलाब-पुष्पाणि मुख्य-आकर्षणस्य केन्द्रं भविष्यन्ति।
गुना-समाहर्ता किशोर कुमार कन्याल अवदत् यत् एषः कार्यक्रमः उद्यानिकी-विभागस्य तत्वावधाने आयोजितः। समाहर्त्रा जिल्हा-निवासिभ्यः अधिकाधिक-सहभागितायाः अपीलं कृत्वा उक्तं यत् एतादृशाः आयोजनाः नगरीय-सौन्दर्यस्य हरित-संस्कृतेः तथा उद्यानिकी-आधारित-उद्यमितायाः प्रोत्साहने महत्त्वपूर्णां भूमिकां निर्वहन्ति।
प्रदर्शनीमध्ये विविध-श्रेणीषु पुष्पाणां पुरस्करणं भविष्यति। तासु गमला-श्रेणी एकल-पुष्प कट-फ्लावर-श्रेणी तथा व्यावसायिक-कट-फ्लावर-श्रेणी विंशति-पुष्प-समूहः अन्तर्भवन्ति। प्रत्येक-श्रेणी व्यक्तिगत-संस्थागत-व्यावसायिक-वर्गेषु विभक्ता अस्ति।
उद्यान-उपसंचालकः केपीएस किरार नागरिकान् प्रति आग्रहं कृतवान् यत् ते स्व-टेरेस-गार्डने किचन-गार्डने उद्याने वा विकसितानि उत्कृष्ट-पुष्पाणि न्यूनातिन्यूनं अर्ध-फुट-दीर्घ-डण्डिका-सहितानि अथवा समग्र-गमलेन सह प्रातः ११:०० वादनपर्यन्तं प्रदर्शनी-स्थले प्रस्तुतयन्तु। संस्थाः विद्यालयाः सामाजिक-संगठनानि व्यावसायिक-प्रतिष्ठानानि च अपि स्व-आकर्षक-प्रदर्शान् अस्मिन् प्रदर्शने समावेशयितुं शक्नुवन्ति।
प्रदर्शनीमध्ये उत्कृष्ट-प्रविष्टिभ्यः प्रथम-द्वितीय-पुरस्कार-रूपेण प्रमाण-पत्राणि प्रदास्यन्ते। सहैव उद्यानिकी-विशेषज्ञैः नगरीय-बागवानी पॉलीहाउस-प्रविधि तथा पुष्प-उत्पादन-सम्बद्धं मार्गदर्शनम् अपि दास्यते। एषा प्रदर्शनी सामान्य-नागरिकेभ्यः अद्य सायं ४:०० वादनात् तथा १ मार्च-दिने प्रातः प्रभृति सम्पूर्ण-दिनं यावत् उद्घाटिता भविष्यति।
जिल्लाप-प्रशासनेन नागरिकान् प्रति अपीलं कृतं यत् ते बहुसंख्यया उपस्थित्य विविध-वर्ण-सुगन्ध-सुशोभित-पुष्पाणां अवलोकनं कुर्वन्तु तथा स्थानीय-उत्पादकानां उत्साह-वर्धनं कुर्वन्तु, येन एषः आयोजनः ऐतिहासिकः स्मरणीयश्च भवेत्।
---------------
हिन्दुस्थान समाचार