Enter your Email Address to subscribe to our newsletters

ग्वालियरम्, 28 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य ग्वालियर-जिल्हायां नारी-सशक्तिकरणस्य उद्देश्येन “शक्ति-दीदी” इति नवाचार-कार्यक्रमस्य अन्तर्गतेभ्यः आवश्यकतायुक्ताभ्यः महिलाभ्यः पेट्रोल-पम्पेषु फ्यूल-डिलेवरी-वर्कर-रूपेण जिल्हा-प्रशासनेन नियुक्तिः दीयते। अस्यैव क्रमस्य अन्तर्गतं अद्य शनिवासरे षट् आवश्यकतायुक्ताः महिलाः “शक्ति-दीदी” इति रूपेण नियुक्ताः भविष्यन्ति। अस्मिन् जिल्हायां अद्यतन-पर्यन्तं शक्ति-दीदी-योजनायाः अन्तर्गतं पञ्चनवतिः महिलाः एतां भूमिकां सफलतया निर्वहन्ति।
जनसम्पर्क-अधिकारी हितेन्द्र-सिंह-भदौरिया अवदत् यत् समाहर्त्री रुचिका-चौहान सह जिल्हा-प्रशासनस्य वरिष्ठ-अधिकारीणः विभिन्न-पेट्रोल-पम्पेषु उपस्थित्य महिलाभ्यः “शक्ति-दीदी” इति रूपेण फ्यूल-डिलेवरी-कार्यकर्त्री-उत्तरदायित्वं प्रदास्यन्ति।
समाहर्त्री मध्यान्हे १२ वादने डबरा-स्थिते रेस्ट-हाउस-समीपे गुप्ता-पेट्रोल-पम्पे रजिया-खान तथा आरती-जाटव इत्येताभ्यां शक्ति-दीदी-उत्तरदायित्वं प्रदास्यति। तथैव जिल्लाधिकारि-साम्ने स्थिते संस्कृति-फिलिंग-स्टेशन-नाम्नि स्थले कशिश-जाटवायै, जैन-मोटर्स-कम्पू-स्थले हेमलता तथा कञ्चनायै, रायरू-स्थिते कैप्टन-उपाध्याय-फिलिंग-स्टेशन-नाम्नि स्थले लाली-देव्यै च शक्ति-दीदी-रूपेण फ्यूल-डिलेवरी-कार्यकर्त्री-उत्तरदायित्वं समर्प्यते।
---------------
हिन्दुस्थान समाचार