प्रधानमंत्री मोदी अद्य राष्ट्रव्यापी एचपीवी टीकाकरणस्य अभियानस्य करिष्यति शुभारंभम्
- मध्यप्रदेशस्य मुख्यमंत्री डॉ. यादवः आभाषिकरूपेण सम्मेलिष्यति भोपालम्, 28 फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य शनिवासरे प्रातः ११:३० वादने एचपीवी मानव पैपिलोमा वायरस टीकाकरण-अभियानस्य शुभारम्भं करिष्यति। मध्यप्रदेशस्य मुख्यमन्त्र
राष्ट्रव्यापी एचपीवी टीकाकरण अभियान का पोस्टर


- मध्यप्रदेशस्य मुख्यमंत्री डॉ. यादवः आभाषिकरूपेण सम्मेलिष्यति

भोपालम्, 28 फरवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी अद्य शनिवासरे प्रातः ११:३० वादने एचपीवी मानव पैपिलोमा वायरस टीकाकरण-अभियानस्य शुभारम्भं करिष्यति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादव कार्यक्रमे आभासी-माध्यमेन सहभागी भविष्यति तथा राज्य-स्तरीय-अभियानस्य अपि शुभारम्भं करिष्यति।

जनसम्पर्क-अधिकारी अंकुश मिश्रा अवदत् यत् नारीणां स्वास्थ्यं परिवारस्य समाजस्य राष्ट्रस्य च प्रगतये आधारः अस्ति। सर्वाइकल-कर्कट-रोगः भारते नारीषु द्वितीयः अत्यन्त-प्राणघातकः कर्कट-रोगः अस्ति। अस्याः गम्भीर-व्याधेः निवारणार्थं भारत-सरकारेण राष्ट्रव्यापी एचपीवी मानव पैपिलोमा वायरस टीकाकरण-अभियानः प्रारभ्यते। प्रधानमन्त्री अद्य राजस्थानस्य अजमेर-जिल्लायाः अस्य राष्ट्रिय-अभियानस्य शुभारम्भं करिष्यति।

एषः अभियानः आगामि-त्रि-मास-पर्यन्तं समग्र-देशे सञ्चालितः भविष्यति। सर्वे राज्याः केन्द्र-शासित-प्रदेशाश्च आभासी-माध्यमेन कार्यक्रमे संयोजिताः भविष्यन्ति। मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्र शुक्ल भोपाल-स्थिते डॉ कैलाशनाथ काटजू-अस्पताले अभियानस्य शुभारम्भं करिष्यति।

जनसम्पर्क-अधिकारेण उक्तं यत् अस्य अभियानस्य अन्तर्गतं १४ वर्षं पूर्णीकृत्य १५ वर्षात् न्यून-वयस्काः बालिकाः टीकाकरणाय पात्राः भविष्यन्ति। अभियान-प्रारम्भात् नवति-दिन-मध्ये १५ वर्ष-वयः प्राप्स्यमाणाः बालिकाः अपि पात्राः मन्यन्ते। एतत् टीकाकरणं पूर्णतया स्वैच्छिकं भविष्यति तथा अभिभावक-सम्मतिः अनिवार्या भविष्यति। निर्धारित-अनुसारं ०.५ मिलिलीटर-परिमिता एकल-खुराकः इंट्रामस्कुलर-इञ्जेक्शन-मार्गेण प्रदास्यते।

एचपीवी-टीकाकरणं केवलं शासकीय-स्वास्थ्य-केन्द्रेषु आयुष्मान-आरोग्य-मन्दिरेषु प्राथमिक-स्वास्थ्य-केन्द्रेषु सामुदायिक-स्वास्थ्य-केन्द्रेषु उप-स्वास्थ्य-केन्द्रेषु जिला-अस्पतालेषु तथा शासकीय-चिकित्सा-महाविद्यालयेषु यत्र चिकित्सा-अधिकारी उपलभ्यन्ते तत्र एव क्रियते। टीकाकरणोत्तरं बालिका त्रिंशत्-मिनिट-पर्यन्तं निरीक्षणे स्थाप्यते। अभियान-कालावधौ प्रतिदिनं टीकाकरण-सुविधा उपलब्धा भविष्यति।

---------------

हिन्दुस्थान समाचार