Enter your Email Address to subscribe to our newsletters

वाशिंगटननगरम्, २८ फरवरीमासः (हि.स.)। ईरान–विरुद्धं आक्रमणस्य सम्भावनां प्रति डोनाल्ड ट्रंप राष्ट्रपतिना व्यक्तायां चिन्तायां सति, ओमानदेशस्य विदेशमन्त्री बद्र: अलबुसैदी शुक्रवासरे उतवान् यत् अमेरिका–ईरानयोः मध्ये सन्धि: अत्यन्तं समीपे अस्ति। वार्ताकारैः ईरानस्य परमाणु–कार्यक्रमं निरोद्धुं सन्धे: दिशि पर्याप्ता प्रगतिः कृता इति स: अवदत्। अलबुसैदी गत–मासे अमेरिका–ईरानयोः मध्ये सम्पन्नेषु त्रिषु वार्ता–चक्रेषु मध्यस्थरूपेण उपस्थितः आसीत्।
CBS News–प्रतिवेदनानुसारं अलबुसैदी अवदत् यत् ईरानः एतस्मिन् विषये सहमतः जातः यत् तस्य कदापि एतादृशी परमाणु–सामग्री न भविष्यति यया विस्फोटकं निर्मातुं शक्यते। एषा सहमतिः अत्यन्तं महत्त्वपूर्णा इति तेन निर्दिष्टम्। तस्यैव अनुसारं ईरानदेश: स्वस्य संवर्धित–यूरेनियमस्य वर्तमानं भण्डारं न्यूनीकर्तुं सिद्धः अस्ति। अपि च, International Atomic Energy Agency (IAEA) इत्यस्य माध्यमेन सन्धे: शर्तानां सत्यापनाय स्व-परमाणु–स्थलानि निरीक्षणार्थं उद्घाटयितुं सः सहमतः अस्ति; अस्मिन् सत्यापने अमेरिकी–निरीक्षकाः अपि सम्मिलिताः भवितुं शक्नुवन्ति।
अलबुसैदी अवदत् यत् सन्धे: अन्येषां तकनीकी–पक्षाणां विषये वार्ता अग्रिम–सोमवासरे वियना–नगरे भविष्यति। सः आशां व्यक्तवान् यत् सः केषाञ्चिद् दिवसानां पश्चात् स्टीव विटकॉफ तथा जेरेडकुशनर: इत्येताभ्यां सह मिलितुं शक्नोति।
अलबुसैदीन: कथनात् भिन्नतया, ट्रंपः पत्रकारान् प्रति अवदत् यत् सः वार्ताभिः सन्तुष्टः न अस्ति। तथापि, तेन स्पष्टं कृतं यत् आक्रमणस्य अनुमतिः दातव्या वा न वा—एतत् अद्यापि निश्चितं न कृतम्।
उल्लेखनीयम् अस्ति यत् ईरान–अमेरिकयोः वार्ताकाराः गत–मासे त्रिवारं वार्तां कृतवन्तः—प्रथमं प्रवासं ओमानदेशे, द्वितीयं तृतीयं च प्रवासं जिनेवा–नगरे सम्पन्नम्। यदि एताः वार्ताः विफलाः भविष्यन्ति, तर्हि बेंजामिन नेतन्याहू तथा अमेरिकीय–विदेश–सचिवः मार्को रुबियो कठोरं दृष्टिकोणं स्वीकरिष्यतः इति पूर्वमेव उक्तवन्तौ। अलबुसैदी पुनरुक्तवान् यत् ईरानदेश: सर्वेषु विषयेषु संवादाय सिद्धः अस्ति तथा उभयदेशौ सन्धे: अत्यन्तं समीपे स्तः। तस्य मतानुसारं सन्धे: शर्तानां कार्यान्वयने त्रयः मासाः अपेक्षिताः भवितुं अर्हति।
हिन्दुस्थान समाचार / अंशु गुप्ता