Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रिय–विज्ञान–दिवसावसरे विज्ञान–प्रौद्योगिक्योरुपयोगेन राष्ट्रीय–विकासाय तथा वैश्विक–कल्याणाय स्वप्रतिबद्धतां पुनरुक्तवान्।प्रधानमन्त्री नरेन्द्र–मोदीना एक्स–माध्यमे प्रेषिते सन्देशे उक्तं यत् देशः विज्ञान–नवाचारयोः माध्यमेन आत्मनिर्भर–विकसित–भारतस्य लक्ष्यं प्रति निरन्तरं अग्रसरः अस्ति। राष्ट्रिय–विज्ञान–दिवसः शोधस्य, नवाचारस्य तथा वैज्ञानिक–जिज्ञासायाः भावनायाः उत्सवः अस्ति इति अपि तेन अभिहितम्।
स: अवदत् यत् एषः दिवसः महान् वैज्ञानिकेन सी.वी.रमनकृतस्य ऐतिहासिकस्य ‘रमन–प्रभाव’ इति आविष्कारस्य स्मृत्यर्थं आचर्यते। एतत् अन्वेषणं भारतीय–अनुसन्धानाय वैश्विक–परिचयं दत्तम् तथा देशं विज्ञान–क्षेत्रे नूतन–शिखराणि प्रति नीतम्।
प्रधानमन्त्रिणा यूनां सशक्तीकरणाय, शोध–परिस्थितिकी–तन्त्रस्य सुदृढीकरणाय, तथा विज्ञान–प्रौद्योगिक्योरुपयोगेन राष्ट्रीय–विकासस्य विश्व–कल्याणस्य च साधनाय संकल्पः पुनरपि प्रतिपादितः।
हिन्दुस्थान समाचार / अंशु गुप्ता