प्रधानमंत्री मोदी अद्य श्वश्च राजस्थानस्य, गुजरातस्य, तमिलनाडोश्च भ्रमणे
नवदिल्ली, 28 फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य श्वः च गुजरात, राजस्थान, तमिलनाडु तथा पुड्डुचेरी इत्येषां प्रदेशानां भ्रमणं करिष्यति। अस्मिन् प्रवासे सः त्रयोविंशतिसहस्रकोटिरूप्यकाधिकमूल्यानां विकासपरियोजनानां उद्घाटनं शिलान्यासं
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी के आज के कार्यक्रम को अपने एक्स हैंडल पर साझा किया है।


नवदिल्ली, 28 फरवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी अद्य श्वः च गुजरात, राजस्थान, तमिलनाडु तथा पुड्डुचेरी इत्येषां प्रदेशानां भ्रमणं करिष्यति। अस्मिन् प्रवासे सः त्रयोविंशतिसहस्रकोटिरूप्यकाधिकमूल्यानां विकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। अस्य यात्रायाः मुख्याकर्षणं देशस्य प्रथमं स्वदेशीयं सेमीकण्डक्टर-चिप-उत्पादनं बालिकानां कृते राष्ट्रव्यापी टीकाकरण-अभियानस्य च शुभारम्भः भविष्यति। एषा सूचना आधिकारिकविज्ञप्तौ प्रदत्ता अस्ति।

आधिकारिकविज्ञप्तेः अनुसारं प्रधानमन्त्री मोदी २८ फेब्रुवरी तिथौ प्रातः ११:३० वादने अजमेर नगरे षोडशसहस्रषट्शताशीति-कोटिरूप्यकपरिमितानां परियोजनानां लोकार्पणं करिष्यति। सः चतुर्दशवर्षीयबालिकानां कृते गर्भाशयग्रीवाकर्कटरोगनिवारणाय राष्ट्रव्यापी एचपीवी-टीकाकरण-अभियानस्य शुभारम्भं करिष्यति। सरकारीविभागेषु नवनियुक्तानां एकविंशतिसहस्राष्टशतयुवानां नियुक्तिपत्राणि वितरिष्यन्ति। अस्य अवसरस्य मध्ये दिल्ली-वडोदरा-त्वरितमार्गस्य अमृतसर-जामनगर-आर्थिक-मार्गस्य च सम्बद्धानां विविधयोजनानां उद्घाटनं भविष्यति।

अनन्तरं अपराह्णे ३:४५ वादने प्रधानमन्त्री मोदी सानंद नगरे माइक्रोन टेक्नोलॉजी इत्यस्य सेमीकण्डक्टर-असेंबली-परीक्षण-पैकेजिंग (एटीएमपी) केन्द्रस्य उद्घाटनं करिष्यति। एषा परियोजना भारतस्य सेमीकण्डक्टर-मिशनस्य अन्तर्गतं अनुमोदिता प्रथमपरियोजना अस्ति। अस्मात् केन्द्रात् देशे निर्मितस्य प्रथमस्य सेमीकण्डक्टर-स्मृति-मॉड्यूलस्य वाणिज्य-उत्पादनं प्रेषणं च आरभ्यते। द्वाविंशतिसहस्रपञ्चशत-कोटिरूप्यकाधिकनिवेशयुक्तायां अस्यां निर्माणशालायां विश्वस्य विशालतमः ‘क्लीनरूम्’ क्षेत्रः निर्मितः अस्ति।

शनिवारस्य रात्रौ प्रायः ९ वादने प्रधानमन्त्री मोदी चेन्नई नगरं प्राप्स्यति। अनन्तरं प्रथम-मार्च-तिथौ प्रातः ११:४५ वादने पुड्डुचेरी मध्ये २,७००-कोटिरूप्यकपरिमितानां आधारभूत-संरचना-शिक्षा-आरोग्यसेवा-सम्बद्धानां विविधपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। मदुरै नगरे ४,४००-कोटिरूप्यकपरिमितानां आधारभूतसंरचनापरियोजनानां लोकार्पणं कृत्वा जनसभां सम्बोधयिष्यति।

अस्मिन् प्रवासे प्रधानमन्त्री एनएच-३३२ए मार्गस्य मरक्कनम्–पुडुचेरी-खण्डस्य एनएच-८७ मार्गस्य परमकुडी–रामनाथपुरम्-खण्डस्य च चतुर्लेन-निर्माणस्य आधारशिलां स्थापयिष्यति। तमिलनाडुराज्ये अष्ट पुनर्विकसित-रेलस्थानकानां उद्घाटनं करिष्यति। सायं ४ वादने प्रधानमन्त्री अरुलमिगु सुब्रमण्यस्वामी मंदिर इत्यत्र पूजां करिष्यति।

---------------

हिन्दुस्थान समाचार