Enter your Email Address to subscribe to our newsletters

हैदराबादनगरम्, २८ फरवरीमास: (हि.स.)। इंग्लैण्डदेशस्य महिला–हॉकी–दलम् एफआईएच हॉकी विश्वकप् २०२६ क्वालीफायर–स्पर्धायै हैदराबादनगरं प्राप्तम्। एषा प्रतिष्ठिता स्पर्धा ८ मार्चतः १४ मार्चपर्यन्तं तेलङ्गानाराज्यस्य राजधानी–नगरे आयोज्यते, यत्र अष्टदेशानां दलानि विश्वकपमध्ये स्थानं प्राप्तुं परस्परं स्पर्धां करिष्यन्ति।
इंग्लैण्डदेशस्य दलं समृद्ध–इतिहासेन सह अस्यां प्रतियोगितायां प्रविशति। एतद्दलम् अद्यावधि ११ एफआईएच विश्वकपसृपर्धासु सहभागित्वं अकरोण्, अस्मिन् पर्याये तस्य लक्ष्यं बेल्जियम–नेदरलैण्ड्स–देशयोः आयोज्यमाने विश्वकप-प्रवेश–पत्रं प्राप्तुम् अस्ति। २०१० तमे संस्करणे दलस्य श्रेष्ठतमं प्रदर्शनं दृष्टम्, यदा तेन कांस्य–पदकं जितम्। अस्यां स्पर्धायां दलं तस्मात् उपलब्धेः अधिकं साधयितुं प्रयतिष्यते।
दलस्य नाटक: फ्लोरा पील हैदराबादनगरं प्राप्य स्व–आत्मविश्वासं प्रकटितवती। सा अवदत् यत् इंग्लैण्डदेशे आयोजितं प्रशिक्षण–शिविरम् अत्यन्तं सफलम् आसीत्, ततः पूर्वं च चीनदेशे प्रो–लीग–प्रतियोगितायां दलं अनेका: प्रतिस्पर्धात्मका: स्पर्धा: अक्रीडत्। तस्या मतानुसारं दलं अधुना उत्तम–लये अस्ति तथा स्पर्धायाः आरम्भं उत्सुकतया प्रतीक्षमाणम् अस्ति।
भारतीय–परिस्थितीनां विषये अपि दलं उत्साहितम् आसीत्। क्रीडिका लिली वॉकर अवदत् यत् दलस्य अनेकाः सदस्याः पूर्वमेव भारतं आगतवत्य:, अत्रत्य–दर्शकानां वातावरणस्य च विषये महान् उत्साहः वर्तते। उष्ण–वातावरणेन सह अनुकूलनाय दलेन विशेष–सज्जा कृता, यस्यां सॉना–सत्राणि अपि समाविष्टानि, येन क्रीडिकाः अत्रत्य–जलवायवे पूर्णतया सज्जाः भविष्यन्ति।
इंग्लैण्डदेशः विश्वकपस्य त्रयाणां उपलब्ध–स्थानानां मध्ये एकं प्राप्तुं पूल–ए मध्ये दृढं प्रदर्शनं कर्तुम् आवश्यकम्। दलं स्व–अभियानस्य आरम्भं ८ मार्चमासे इटली–देशस्य विरुद्धं करिष्यति, ९ मार्चमासे कोरिया–गणराज्येन सह स्पर्धां करिष्यति, तथा ११ मार्चमासे ऑस्ट्रिया–देशस्य विरुद्धं समूह–चरणस्य अन्तिमां स्पर्धां खेलिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता