वाराणस्याः मणिकर्णिकाघाटे ज्वलन्तीना चितानां मध्ये क्रीडितस्य चिताभस्मनः होलिका
—डमरुओं की गूंज, ‘हर-हर महादेव’ के उद्घोष और भस्म-अबीर से सजी बाबा महाश्मशाननाथ की आरती वाराणसी, 28 फरवरीमासः (हि.स.)। वाराणसी इत्यस्य धार्मिकनगरे काश्यां रंगभरीएकादश्याः परदिने शनिवासरे मोक्षतीर्थे मणिकर्णिका घाट परम्परया चिताभस्महोली ज्वलद्भिश
मणिकर्णिकाघाट पर चिता भस्म की होली


मणिकर्णिकाघाट पर चिता भस्म की होली


मणिकर्णिकाघाट पर चिता भस्म की होली


—डमरुओं की गूंज, ‘हर-हर महादेव’ के उद्घोष और भस्म-अबीर से सजी बाबा महाश्मशाननाथ की आरती

वाराणसी, 28 फरवरीमासः (हि.स.)।

वाराणसी इत्यस्य धार्मिकनगरे काश्यां रंगभरीएकादश्याः परदिने शनिवासरे मोक्षतीर्थे मणिकर्णिका घाट परम्परया चिताभस्महोली ज्वलद्भिश्चिताभिः मध्ये श्रद्धया पूर्णोल्लासेन च आचरीता। सहस्रशः काशिवासिनः “हर हर महादेव” इति घोषैः विशालडमरूनां निनादैश्च सह महाश्मशाननाथ विग्रहे चिताभस्म अबीरगुलालं च अर्पयित्वा उत्सवे सहभागीभूता।

घाटे “खेलें मसाने में होरी दिगंबर” इति गीतस्य स्वरतरङ्गेषु युवानः दीर्घकालं यावत् ज्वलद्भिः चिताभिः मध्ये सामूहिकतया नृत्यन्तः आसन्। काश्यां मृत्युं अपि उत्सवरूपेण स्वीकर्तुं या परम्परा अस्ति तस्याः जीवंतदृश्यं महाश्मशानघाटे दृष्टम्।

पूर्वमेव चिताभस्महोलीउत्सवे सहभागीभवितुं घाटे औघडाः अघोरिणः साधुसन्तः शिवभक्ताः स्थानिकनागरिकाः देशविदेशीयपर्यटकाः च बहुसंख्यया समायाताः। नवनिर्माणकार्यकारणात् श्रद्धालूनां कृते स्थानं सीमितम् आसीत्। एकस्मिन् पार्श्वे अन्त्येष्टिकर्मार्थं शवपङ्क्तिः आसीत्, अपरस्मिन् पार्श्वे “हर हर महादेव” इति गगनभेदीघोषं कुर्वन्तः युवानां समूहः।

काश्याः मान्यतानुसारं विश्वनाथ गौनोत्सवे तस्य गणाः पिशाचभूतप्रेतडाकिनीशाकिन्यादयः औघडाः अघोरिणश्च ससुरालपक्षस्य आग्रहात् सहभागीभवितुं न शक्नुवन्ति। अतः महादेवः स्वगणान् निराशान् न करोति, गौनोत्सवस्य परदिने मणिकर्णिका घाट स्थले तैः सह चिताभस्महोलीं क्रीडति। एतस्यैव पौराणिकपरम्परायाः निर्वाहार्थं रंगभरीएकादश्याः अनन्तरं एषः अद्वितीयः उत्सवः आयोज्यते।

चिताभस्महोलीपूर्वं बाबा महामशानेश्वर महादेव मंदिर इति मन्दिरे व्यवस्थापकयोः गुलशनकपूर चैनूप्रसादयोः निरीक्षणे विधिवत् मध्याह्नआरती सम्पन्ना। आरत्याः अनन्तरं आयोजनसमितेः पदाधिकरिणः युवगणाश्च डमरुनगाडानां तालैः सह “हर हर महादेव” इति जयघोषं कुर्वन्तः चिताभस्महोलीउत्सवे सहभागीभूता।

रागविरागयोः अस्य अद्वितीयसङ्गमस्य छायाचित्रग्रहणार्थं बहुसंख्यया पर्यटकाः घाटे स्थिताः। शिवआराधनासमितेः सम्बद्धौ डा मृदुलमिश्रः शिवभक्तः संजयपाण्डेयश्च अवदताम् यत् काश्यां मन्दिरदेवस्थानमहाश्मशानानां महत्त्वं समं मन्यते। अत्र महादेवः तारकमन्त्रं प्रदाय जीवभ्यः मोक्षं ददाति, तस्माद्भावात् भस्महोली आचर्यते।

काश्यां जीवनमृत्योः समभावेन स्वीकृत्याः परम्परायां चिताभस्महोली आस्था अध्यात्म अद्वितीयसांस्कृतिकपरम्परायाः च प्रतीकः अस्ति। जीवनस्य शाश्वतसत्येन परिचायके महाश्मशानघाटे सर्वत्र डमरूणां डमडमध्वनिना सह चिताभस्म महाश्मशाननाथ अर्पयित्वा अस्य उत्सवस्य शुभारम्भः क्रियते।

हिन्दुस्थान समाचार