देहलीविश्वविद्यालये दीक्षांते 1.20 लक्षाय छात्रेभ्यः प्रदत्ताः उपाधयः , उपराष्ट्रपतिः अददात् राष्ट्र प्रथमस्य मंत्रम्
नव दिल्ली, 28 फरवरीमासः (हि.स.)।विश्वविद्यालयस्य १०२तमदीक्षान्तसमारोहे उपराष्ट्रपतिः तथा विश्वविद्यालयस्य कुलाधिपतिःसीपीराधाकृष्णकृष्णन् शनिवासरे १,२०,४०८ विद्यार्थिभ्यः डिजिटल् उपाधिपत्राणि प्रदत्तवान्। स उक्तवान् यत् उपाधिः केवलं प्रमाणपत्रं न, अ
उपराष्ट्रपति सी.पी. राधाकृष्णन शनिवार को दिल्ली विश्वविद्यालय के 102वें दीक्षांत समारोह को संबोधित करते हुए


नव दिल्ली, 28 फरवरीमासः (हि.स.)।विश्वविद्यालयस्य १०२तमदीक्षान्तसमारोहे उपराष्ट्रपतिः तथा विश्वविद्यालयस्य कुलाधिपतिःसीपीराधाकृष्णकृष्णन् शनिवासरे १,२०,४०८ विद्यार्थिभ्यः डिजिटल् उपाधिपत्राणि प्रदत्तवान्। स उक्तवान् यत् उपाधिः केवलं प्रमाणपत्रं न, अपितु समाजस्य राष्ट्रस्य च प्रति प्रतिबद्धता अस्ति। युवजनान् प्रति “राष्ट्रं प्रथमम्” इति जीवनस्य मार्गदर्शकसिद्धान्तं स्वीकर्तुं स आह्वानम् अकरोत्।

विश्वविद्यालयस्य बहुउद्देशीयक्रीडाङ्गणे आयोजिते अस्मिन् समारोहे ७३४ शोधार्थिभ्यः पीएचडी उपाधिः प्रदत्ता, तथा १३२ सुवर्णरजतमेडलाः पुरस्काराश्च वितरिताः। उपराष्ट्रपतिना दश प्रतिभाशालिनः विद्यार्थिनः स्वहस्तेन मेडलैः सम्मानिताः तथा ‘बुक् ऑफ् हाइलाइट्स्’ इत्यस्य विमोचनम् अपि कृतम्।

समारोहं सम्बोधयन् उपराष्ट्रपतिः विश्वविद्यालयस्य १०४ वर्षदीर्घां गौरवशाली यात्राम् उल्लेखितवान्। स अवदत् यत् १९२२ तमे वर्षे केवलं त्रयः महाविद्यालयाः, द्वे संकायौ, अष्ट विभागाः, ७५० विद्यार्थीभ्यः सह आरब्धम् एतत् संस्थानम् अद्य १६ संकायाः, ८६ विभागाः, ९० महाविद्यालयाः, २० छात्रावासाः, ३० अधिकानि केन्द्राणि संस्थानानि च, ३४ ग्रन्थालयाः, षट् लक्षाधिकाः विद्यार्थीभ्यः सह वैश्विकस्तरे प्रतिष्ठां प्राप्तवान् अस्ति।

स विश्वविद्यालयस्य निरन्तरं उन्नीयमानां राष्ट्रियान्तरराष्ट्रीयस्थानाङ्कनस्थितिं प्रशंसितवान्, यत् तस्य शैक्षणिकउत्कृष्टतायाः प्रमाणम् अस्ति। आगामिषु वर्षेषु विश्वविद्यालयः विश्वस्य अग्रगण्यशिक्षणसंस्थानानां मध्ये उच्चतरं स्थानं प्राप्स्यति इति स विश्वासं व्यक्तवान्।

उपराष्ट्रपतिः अवदत् यत् दीक्षान्तः केवलं औपचारिकसमारोहः न, किन्तु जीवनस्य एकस्य चरणस्य समाप्तिः अन्यस्य आरम्भश्च अस्ति। अद्यतनस्नातकाः तस्मिन् काले उत्तरदायित्वपूर्णं विश्वं प्रविशन्ति, यदा प्रौद्योगिकी, कृत्रिमबुद्धिमत्ता, जलवायुपरिवर्तनम्, वैश्विकलोकतान्त्रिकचुनौतयः च विश्वव्यवस्थां परिवर्तयन्ति।

“उपाधिः केवलं प्रमाणपत्रं न, अपितु समाजसेवायै, राष्ट्रोन्नतये स्वकौशलस्य उपयोगाय, ‘राष्ट्रं प्रथमम्’ इति सिद्धान्तस्य आचरणाय च प्रतिबद्धता अस्ति” इति स उक्तवान्।

स ‘विकसितभारत २०४७’ इत्यस्य लक्ष्यं उल्लेख्य अवदत् यत् स्वातन्त्र्यस्य शतवार्षिकीसमये भारतं विकसितराष्ट्रं कर्तुं युवानां भूमिका निर्णायिका भविष्यति। आत्मनिर्भरता केवलं आर्थिकस्वावलम्बनं न, अपितु नवोन्मेषः, अनुसन्धानम्, उद्यमिता, भारतीयज्ञानपरम्परायाः वैश्विकप्रतिस्पर्धायां विकासश्च अस्ति। वैज्ञानिकाः, सिविलसेवकाः, उद्यमिनः, कलाकाराः, अध्यापकाः, विधिविशेषज्ञाः वा भूत्वा ते भारत २०४७ निर्माणस्य वास्तुकाराः भविष्यन्ति इति स अवदत्।

अस्मिन् वर्षे ५० प्रतिशताधिकाः स्नातकाः तथा ७० प्रतिशताधिकाः सुवर्णमेडलविजेतारः महिलाः सन्ति इति स हर्षं व्यक्तवान्। एतत् देशे नारीशिक्षायाः उल्लेखनीयविस्तारस्य प्रमाणम् इति स अवदत् तथा सर्वाभ्यः छात्राभ्यः विशेषाभिनन्दनम् अकरोत्। विद्यार्थिभ्यः “मादकद्रव्येभ्यः न” इति वदितुं तथा सामाजिकमाध्यमानां उत्तरदायित्वपूर्णं उपयोगं कर्तुं स उपदिष्टवान्। ज्ञानप्रक्रिया जीवनपर्यन्तं प्रवर्तते तथा ज्ञानस्य सह संवेदनशीलता सेवाभावश्च एव सत्यसफलतायाः आधारः इति स उक्तवान्।

समारोहस्य अध्यक्षतां कुर्वन् विश्वविद्यालयस्य कुलपतिः प्रो. योगेशसिंहः अवदत् यत् द्वितीयविश्वयुद्धस्य कोविड १९ इत्यादीनां चुनौतिनामपि मध्ये विश्वविद्यालयेन प्रतिवर्षं दीक्षान्तसमारोहः आयोजितः, अकादमिकप्रतिबद्धता च संरक्षिता। “एषः देशः अस्माकं अस्ति, तस्य चिन्ता अपि अस्माभिः एव कर्तव्या” इति स विद्यार्थिभ्यः उक्तवान्।

विश्वविद्यालयस्य ध्येयवाक्यम् “निष्ठा धृतिः सत्यम्” तथा ‘राष्ट्रं प्रथमम्’ इति जीवनमार्गदर्शकं कृत्वा समाजराष्ट्रमानवतेषु उत्तरदायित्वपालनस्य आह्वानम् अकरोत्। अस्मिन् दीक्षान्तसमारोहे डीनाः, विभागाध्यक्षाः, आचार्याः, अधिकारीणः, कर्मचारीणः, विद्यार्थीजनाः, तेषां अभिभावकाः च बहुसंख्यया उपस्थिताः आसन्।

---------

हिन्दुस्थान समाचार