नागपुरनिर्माणशालाविस्फोट: प्रधानमंत्री मोदी प्रकटितं दुःखं, मृतकेभ्यः परिजनेभ्यः क्षतिपूर्तेः घोषणा
नव दिल्ली, 01 मार्चमासः (हि.स.)। महाराष्ट्रस्य नागपुरे स्थिते कारखाने जातस्य भीषणविस्फोटस्य विषये प्रधानमन्त्री नरेन्द्रमोदिनो गाढं शोकं व्यक्तीकृतम्। मृतकानां परिजनानां कृते क्षतिपूर्तेः घोषणापि कृता। प्रधानमन्त्री ‘एक्स’ माध्यमे उक्तवान् “महा
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 01 मार्चमासः (हि.स.)।

महाराष्ट्रस्य नागपुरे स्थिते कारखाने जातस्य भीषणविस्फोटस्य विषये प्रधानमन्त्री नरेन्द्रमोदिनो गाढं शोकं व्यक्तीकृतम्। मृतकानां परिजनानां कृते क्षतिपूर्तेः घोषणापि कृता।

प्रधानमन्त्री ‘एक्स’ माध्यमे उक्तवान्

“महाराष्ट्रस्य नागपुरे स्थिते कारखाने जातः विस्फोटः अत्यन्तं दुःखदः अस्ति। मृतकानां परिवारजनानां प्रति मम गाढाः संवेदनाः सन्ति। अहं घातितानां शीघ्रस्वास्थ्यलाभाय प्रार्थनां करोमि। स्थानीयप्रशासनं प्रभावितजनानां साहाय्यं करोति।”

पीडितपरिवाराणां साहाय्यार्थं प्रधानमन्त्रिराष्ट्रियराहतनिधेः स्वीकृतिः प्रदत्ता। प्रत्येकस्य मृतकस्य परिवाराय द्विलक्षरूप्यकाणाम् अनुग्रहराशिः प्रदास्यते। घटनायां घातितेषु प्रत्येकं व्यक्तये पञ्चाशत्सहस्ररूप्यकाणां साहाय्यराशिः प्रदास्यते।

---------------

हिन्दुस्थान समाचार