Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 मार्चमासः ( हि.स.)।
ऊर्जादक्षताक्षेत्रे भारतस्य अग्रणीसंस्था ऊर्जा दक्षता ब्यूरो (बीईई) इत्यनेन नवदिल्लीस्थे इंडिया हैबिटेट सेन्टर इति स्थले रविवासरे स्वस्य पञ्चविंशतितमं स्थापना-दिवसोत्सवः आचरितः। अस्मिन् अवसरॆ बीईई २५ प्रतीकचिह्नस्य अनावरणं कृतम्, बीईई स्टार लेबल मोबाइल अनुप्रयोगस्य तथा आरसीओ पोर्टलस्य शुभारम्भः अपि सम्पन्नः।
विद्युत् तथा आवास-नगरकार्यमन्त्री मनोहरलालः “उपचारात् श्रेष्ठा निरोधः” इति लोकोक्तिं स्मारयन् उक्तवान् यत् बीईई विद्युत्क्षेत्रस्य कृते निवारकसंस्थारूपेण कार्यं करोति। अद्य रक्षितायाः प्रत्येकस्य विद्युतैककस्य फलस्वरूपं अतिरिक्त-उत्पादनक्षमतायाः आवश्यकता न्यूनाभवति तथा उत्सर्जनस्य अपि ह्रासः भवति। ऊर्जादक्षप्रवृत्तीनां स्वीकरणेन वयं न केवलं पर्यावरणस्य संरक्षणं कुर्मः, अपितु आगामिन्यः पीढयः कृते शुद्धतरं स्थायिशीलं च भविष्यं सुनिश्चितं कुर्मः। तेन देशे ऊर्जादक्षताप्रयत्नेषु बीईई संस्थायाः महत्त्वपूर्णयोगदानस्य प्रशंसा कृता। सः अवदत् यत् भारतदेशेन २००५ तमे वर्षे निर्दिष्टस्तरात् स्वसकलदेशीयोत्पादनस्य उत्सर्जनतीव्रतायां षट्त्रिंशत् प्रतिशतपरिमितः न्यूनताकृतः, तथा २०३० लक्ष्यकालात् पूर्वमेव द्विपञ्चाशत् प्रतिशतपरिमिता अजीवाश्म-इन्धनाधारित-स्थापितक्षमता प्राप्ता।
मन्त्रिणा नवीकरणीय-ऊर्जोपभोग-कर्तव्यता (आरसीओ), प्रदर्शन-उपलब्धि-व्यापार (पीएटी) योजना, कार्बन-क्रेडिट-व्यापार-योजना (सीसीटीएस) प्रति संक्रमणम्, कॉर्पोरेट-सामान्य-इन्धन-दक्षता (सीएएफई), लघु-मध्यम-उद्योगानां कृते एडीईटीआई योजना, मानक-लेबलिंग (एस एंड एल) कार्यक्रमः, ऊर्जा-संरक्षण-सतत-भवन-संहिता (ईसीएसबीसी), तथा परिवहनक्षेत्रस्य दक्षतामूलक-उपायाः इत्यादीनां प्रमुखप्रयत्नानां अन्तर्गतं प्राप्ताः उपलब्धयः अपि विवृताः।
विद्युत्सचिवः पंकजअग्रवालः भारतस्य ऊर्जाक्षेत्रे परिवर्तमानरूपरेखां विवृतवान्, यत्र वर्धमाना मांग, अजीवाश्म-इन्धनक्षमतायाः विस्तारः, डिजिटलीकरणस्य वृद्धिः च दृश्यते। तेन ऊर्जादक्षता भारतस्य “प्रथमं इन्धनम्” इति निर्दिष्टा, या ऊर्जासुरक्षा, वहनीयता, स्थिरता च इत्येषां मध्ये संतुलनस्य प्रमुखसाधनम् अस्ति।
एषः पञ्चविंशतितम-स्थापना-दिवस-समारोहः सतत-विकासस्य, राष्ट्रिय-ऊर्जासुरक्षायाः, पर्यावरणीय-दायित्वस्य च प्रेरकरूपेण ऊर्जादक्षतायाः संवर्धने बीईई संस्थायाः अखण्डसंकल्पं पुनः प्रत्यपादयत्। विकसित-आत्मनिर्भर-भारतस्य मार्गे अयं दृढप्रतिज्ञा पुनः पुष्टि कृता।
अस्मिन् अवसरॆ केन्द्रीय-मन्त्रालयानां, राज्य-सरकाराणां, राज्य-नामित-संस्थानां (एसडीए) तथा सहयोगी-संस्थानां वरिष्ठ-अधिकारीणः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार