भाजपा सर्व धर्मस्य सर्वजातेश्च जनानां कुरुते सम्मानम् : ठा. रामवीर सिंहः
मुरादाबादः, 01 मार्चमासः(हि.स.)। उत्तरप्रदेशस्य मुरादाबादजनपदस्य कुन्दरकीविधानसभाक्षेत्रात् भारतीय जनता पार्टी दलस्य विधायकः ठाकुर रामवीर सिंह रविवासरे महर्षि दयानंद लॉ कॉलेज संस्थायां रोजाइफ्तारकार्यक्रमम् आयोजितवान्। अस्मिन् अवसरे विधायकः अवदत्
महर्षि दयानंद लॉ कॉलेज में रोजा इफ्तार कार्यक्रम में भाजपा विधायक व रोजदार।र।


मुरादाबादः, 01 मार्चमासः(हि.स.)।

उत्तरप्रदेशस्य मुरादाबादजनपदस्य कुन्दरकीविधानसभाक्षेत्रात् भारतीय जनता पार्टी दलस्य विधायकः ठाकुर रामवीर सिंह रविवासरे महर्षि दयानंद लॉ कॉलेज संस्थायां रोजाइफ्तारकार्यक्रमम् आयोजितवान्। अस्मिन् अवसरे विधायकः अवदत् यत् भाजपा सर्वधर्मजातीयजनानां सम्मानं करोति, अत एव अस्माकं सूत्रवाक्यम् अस्ति “सबका साथ सबका विकास सबका विश्वास”।

विधायकः उक्तवान् यत् रमजानमासः धैर्यत्यागयोः मासः अस्ति। अयं मासः परस्परं सहाय्यं कर्तुं शिक्षां ददाति। स समाजे शान्तिं ऐक्यं च धारयितुं आह्वानम् अकरोत्। अग्रे स अवदत् यत् उत्सवाः अस्मान् संयोजयन्ति। तेषां मुख्योद्देश्यः समाजं ऐक्यसूत्रे बद्धुं भवति।

दावतेइफ्तारकार्यक्रमे मुस्लिमहिन्दूसमाजयोः संयुक्तरूपेण सहभागिता एतस्य प्रतीकं यत् अस्माकं राष्ट्रं प्रेमसद्भावयोः सुन्दरसूत्रे बद्धम् अस्ति।

रोजाइफ्तारकार्यक्रमे सहस्रशः क्षेत्रवासिनः उपस्थिताः आसन्। सर्वे एकत्र उपविश्य इफ्तारं कृतवन्तः। इफ्तारे खर्जूरफलानि पक्वान्नानि शरबतादयः पारम्परिकव्यञ्जनानि उपस्थापितानि।

कार्यक्रमे पूर्वविधायकः सौलत अली, भाजपा अल्पसंख्यकमोर्चादलस्य प्रदेशाध्यक्षः कुंवर बासित अली, दूल्हालंबरदारः, ब्लॉकप्रमुखः नवदीपयादवः, मण्डलाध्यक्षः महेन्द्रसैनी, नीरजचन्द्रः, अज़ीममलिकः, जाहिदहुसैनः, कुन्दरकीब्लॉकप्रमुखप्रतिनिधिः गुलामजिलानी, रोहितसिंहः, रविन्द्रसिंहः, ग्रामप्रधानः राहिलः, मुजाहिदः, महफूजः, मुजीबुलः, शानूलंबरदारः, फारूकः, रविसक्सेनः, जयसिंहः, सोनूरस्तौगी, मेहंदीहसनः इत्यादयः सहस्रशः क्षेत्रवासिनः अपि उपस्थिताः आसन्।

----------

हिन्दुस्थान समाचार