संचार–मन्त्रालयस्य उत्तर–क्षेत्र–समीक्षा–सत्रे राजस्व, पेंशन तथा अनुपालन–तन्त्रस्य विषयेषु मंथनं कृतम्
नवदिल्ली, ०१ मार्चमासः (हि.स.) ।संचार–लेखा–महानियंत्रकस्या: वंदनागुप्तायाः अध्यक्षत्वे उत्तर–क्षेत्र–समीक्षा–सभायां दूरसंचार–राजस्वसंग्रह:, पेंशन–वितरण–प्रणाली–समीक्षा, लाइसेंस–शुल्कं तथा स्पेक्ट्रम–उपयोग–शुल्क–निरीक्षणं, अन्तर्जाल–सेवा–प्रदाता–अनु
संचार मंत्रालय की उत्तर क्षेत्र समीक्षा बैठक में राजस्व, पेंशन और अनुपालन तंत्र पर हुआ मंथन


नवदिल्ली, ०१ मार्चमासः (हि.स.) ।संचार–लेखा–महानियंत्रकस्या: वंदनागुप्तायाः अध्यक्षत्वे उत्तर–क्षेत्र–समीक्षा–सभायां दूरसंचार–राजस्वसंग्रह:, पेंशन–वितरण–प्रणाली–समीक्षा, लाइसेंस–शुल्कं तथा स्पेक्ट्रम–उपयोग–शुल्क–निरीक्षणं, अन्तर्जाल–सेवा–प्रदाता–अनुपालन–तन्त्रस्य सरलीकरणं तथा आन्तरिक–लेखा–परीक्षणस्य सुदृढीकरणादिषु प्रमुख–विषयेषु मंथनं कृतम्। सभायाम् ‘जीवन–सुगमता’ तथा ‘आजीविका–सुगमता’ केन्द्रबिन्दुरूपेण स्पष्ट–लक्ष्यनिर्धारणं कृतम्।

केंद्रीय–संचार–मन्त्रालयेन निर्दिष्टम् यत् २८ फरवरीत: १ मार्चपर्यन्तं आयोज्यमानायां अस्यां सभायाम् जम्मू–कश्मीर, हरियाणा, पंजाब, हिमाचल–प्रदेश, उत्तराखण्ड, उत्तर–प्रदेश–पूर्व, उत्तर–प्रदेश–पश्चिम च नवदिल्ली इत्येतेषां संचार–लेखा–नियंत्रक–कार्यालयानां प्रतिनिधयः सहभागं कृतवन्तः। उत्तर–क्षेत्रे सन् ८५० अतिरिक्तं लाइसेंस–धारकाणां प्रबन्धः क्रियते। चलित–वित्तवर्षे अद्यापि एतत् क्षेत्रे ६,५०० कोटिरूप्यकेभ्य: अधिकं लाइसेंस–शुल्कं तथा प्राय: ७५० कौटिरूप्यकाणां स्पेक्ट्रम–उपयोग–शुल्कं सङ्गृहीतम्। दूरसंचार–राजस्व–संग्रहः ७,२५० कोटिरूप्यकेभ्य: अधिकं अभवत्।

सभायाम् १.१० लक्षातिरिक्त–पेंशनभोगिनः कल्याणसंबद्ध–विषयानां समीक्षापि कृतवन्त:। एते पेंशनभोगिनः दूरसंचार–विभाग:, भारत–संचार–निगम–लिमिटेड तथा महानगर–टेलीफोन–निगम–लिमिटेड सम्बद्धाः। पेंशन–वितरण–प्रक्रियायाः सरलीकरणं तथा समयबद्धतां विशेषतया निर्देशितम्। सूचना–निवारण–तन्त्रस्य प्रभावकारितावर्धनाय अपि निर्देशः प्रदत्तः।

राजस्व– तथा वित्तविवरण–सत्रे वित्तीय–प्राप्तीनां यथार्थ–निरीक्षणं तथा राजकोषीय–अनुशासनं सुनिश्चितं कर्तुं चर्चां कृता। अन्तर्जाल–सेवा–प्रदातृभ्यः मार्गदर्शनं दत्तं तथा प्रशासनिक–प्रक्रियाः सुव्यवस्थिताः कर्तुं रणनीतिः चिन्तिता। उद्देश्यं यत् लाइसेंस–धारकाणां अनुपालन–प्रक्रिया सरलीकृता भवेत् तथा कारोबारी–परिवेशः दृढः स्यात्।

आन्तरिक–लेखा–परीक्षण–प्रणालीं सुदृढीकर्तुं विशेषबलं प्रदत्तम्। संस्थागत–पारदर्शिता तथा उत्तरदायित्वं सुनिश्चितं कर्तुं नियमित–निरीक्षण–समीक्षा–तन्त्रस्य प्रभावकारितां वर्धयितुं निर्णयः कृतः। सभायाम् अनुभव–सहभागकरण–सत्रं अपि आयोज्यते। विविध–क्षेत्र–प्रमुखैः सफल–कार्यप्रणालि–नवाचाराणां विवरणं प्रदत्तम्।

अस्मिन् अवसरे संजिवन–सिन्हायाः प्रस्तुति: डिजिटल–भारत–निधि: तथा संशोधित–भारत–नेट–कार्यक्रमे अभवत्। एषा प्रस्तुति: अन्तिम–ग्रामात् अन्तिम–नागरिकपर्यन्तं तीव्रं विश्वसनीयं फाइबर–संपर्कं प्रापयितुं चलमान–प्रयासानां विवरणं प्रदत्तवती।

सभान्ते वंदना गुप्ता अवदत् — प्रभावी–प्रशासनं एव विभागीय–कार्याणां आधार–शिला। सा सर्व–एकक-पारदर्शिता, दक्षता तथा समयबद्धता इत्येतै: सह निर्धारित–लक्ष्यानि साधितुं निर्दिष्टवती।

हिन्दुस्थान समाचार / अंशु गुप्ता