Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०१ मार्चमासः (हि.स.)। राष्ट्रीय–स्वयंसेवकसंघस्य सरसंघचालकः डॉ.मोहनरावभागवतः रविवासरे उत्तरप्रदेश–राजधानी–लखनऊनगरम् आगतवान्। अत्र सरसंघचालकः डॉ.भागवतः संघस्य प्रान्तीय–कार्यालये भारती–भवने राष्ट्रीय–स्वयंसेवक–संघ–पदाधिकारिभि: सह मिलितवान्। मध्याह्ने विश्रामानन्तरं सः जियामऊस्थिते विश्व–संवाद–केंद्रम् गतवान्। सायंकाले गोमतीनगरस्थिते बीबीडी–बैडमिंटन–अकादम्यां आयोजिते रंगोत्सव–कार्यक्रमे सरसंघचालकः सहभागं करिष्यति। यद्यपि प्रचार–विभागेन सरसंघचालकस्य लखनऊनगरस्य प्रवासे कस्मिन्नपि कार्यक्रमे सहभागीताया: सूचना न प्रदत्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता