Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 01 मार्चमासः (हि.स.)।
महिलानां बालिकानां च आर्थिकसशक्तीकरणदिशि दिल्लीसरकारस्य एका महत्त्वपूर्णा योजना आधिकारिकमुद्रां प्राप्तुं सज्जा अस्ति। सोमवासरे २ मार्च दिनाङ्के इंदिरा गांधी इंदौर क्रीड़ागने विशेषभव्यकार्यक्रमः ‘सशक्त नारी समृद्ध दिल्ली’ आयोजितः भविष्यति। अस्मिन् समारोहॆ राष्ट्रपतिःद्रोपदीमुर्मुः दिल्लीसर्वकारस्य महत्त्वाकाङ्क्षिण्याः ‘दिल्ली लखपति बिटिया योजना’ इत्यस्याः औपचारिकं शुभारम्भं करिष्यति।
मुख्यमन्त्री रेखागुप्ता उक्तवती यत् एषः कार्यक्रमः महिला सशक्तीकरणे दिल्लीसरकारस्य प्रतिबद्धतायाः प्रतीकः अस्ति। एषः कार्यक्रमः महिला एवं बालविकासविभागेन आयोजितः अस्ति। सा अवदत् यत् परिवर्तमाने काले उच्चशिक्षायाः व्ययवृद्धिं दृष्ट्वा बालिकानां कृते प्रभाविनी भविष्योन्मुखी च योजना अपेक्षिता आसीत्। अतः पूर्वप्रचलिता लाडली योजना विस्तारितसुदृढरूपेण ‘दिल्ली लखपति बिटिया योजना’ इति नाम्ना पुनर्गठिता।
पूर्वरूपरेखायां प्रत्येकस्याः पात्रबालिकायाः नाम्नि संस्थागतजन्मनि एकादशसहस्ररूप्यकाणि, गृहे जातायां तु दशसहस्ररूप्यकाणि निक्षिप्यन्ते स्म। तदनन्तरं प्रथमकक्षा षष्ठीकक्षा नवमीकक्षा प्रवेशे दशमी उत्तीर्णतायां द्वादशीकक्षा प्रवेशे च पञ्चसहस्ररूप्यकाणि निक्षिप्यन्ते स्म। एषा संचितराशिः व्याजसहितम् अष्टादशवर्षे निष्कासनीया आसीत्।
नूतनयोजनायां तु साहाय्यराशिः दृष्टिकोणश्च व्यापकतया वर्धितौ स्तः। अधुना बालिकायाः नाम्नि विविधचरणेषु समष्ट्या षट्पञ्चाशत्सहस्ररूप्यकाणि निक्षेप्यन्ते। व्याजसहितम् एकविंशतिवर्षपर्यन्ते परिपक्वतामूल्यं लक्षरूप्यकाधिकं भविष्यति इति अपेक्षा। उद्देश्यः अयं यत् स्नातकपदवी अथवा व्यावसायिकडिप्लोमा सम्पन्नता सामान्यसिद्धिरूपेण स्थापितुं शक्येत।
नूतना योजना पूर्णतया डिजिटलरूपेण प्रवर्तिष्यते। कोषप्रबन्धनं एसबीआई लाइफ इंश्योरेंस लिमिटेड द्वारा क्रियते, निवेशः एसबीआई लाइफ धनराशि साधनान्तर्गतः भविष्यति। विभागेन निक्षिप्ता राशि बालिकायाः वयसा सह वर्धिष्यते, परिपक्वतायां च समग्रराशिः आधारसंलग्नबैंकखाते प्रत्यक्षं प्रेषिता भविष्यति। अनेन पारदर्शिता प्रत्यक्षवित्तीयसमावेशनं च सुनिश्चितं भविष्यति।
योजनायाः लाभः तेषां परिवाराणाम् एव भविष्यति येषां वार्षिकायः एकलक्षद्वाविंशतिसहस्ररूप्यकाधिकः नास्ति तथा ये त्रिवर्षपर्यन्तं दिल्लीप्रदेशे निवसन्ति। बालिकायाः जन्म दिल्लीप्रदेशे भवितव्यम् अनिवार्यम्। पंजीकरणं जन्मात् एकवर्षाभ्यन्तरे अथवा निर्दिष्टशैक्षणिकचरणेषु कर्तुं शक्यते। प्रति परिवारं द्वे जीवितबालिके पर्यन्तं लाभः सीमितः भविष्यति।
योजनाक्षेत्रं विस्तारितं यत् भारतदेशे कस्यापि सरकारीमान्यताप्राप्ते अथवा यूजीसीमान्यताप्राप्तसंस्थाने स्नातक अथवा व्यावसायिकडिप्लोमापाठ्यक्रमं कुर्वत्यः बालिकाः अपि अन्तर्भाविताः सन्ति। परिपक्वताराशिः केवलं शैक्षणिकशर्तपूर्तौ एव देया भविष्यति।
विशेषतया ‘सशक्त नारी समृद्ध दिल्ली’ कार्यक्रमे दिल्ली लाडली योजनान्तर्गतं चत्वारिंशत्सहस्रषट्शतद्विचत्वारिंशत् पात्रलाभार्थिभ्यः शतकोट्यधिकपञ्चविंशतिलक्षरूप्यकाणां डिजिटलराशिः डीबीटी माध्यमेन प्रदास्यते। एषा राशि ‘मेरी पूंजी मेरा अधिकार’ इति उपक्रमेण दीयते।
द्विसहस्राष्टवर्षे प्रारब्धायाः दिल्ली लाडली योजनायाः उद्देश्यः बालिकाजन्मप्रोत्साहनं शिक्षा प्रोत्साहनं च आसीत्। परिपक्वराशिः अर्जितव्याजसहितं डीबीटी माध्यमेन आधारसंलग्नवित्तकोषे प्रत्यक्षं प्रेषिता भविष्यति, येन पारदर्शिता कार्यकुशलता लाभार्थिनां प्रति प्रत्यक्षप्रवेशः च सुनिश्चितः भविष्यति।
---------------
हिन्दुस्थान समाचार