मुख्यमंत्रिणो डॉ. यादवस्य अद्य कूनोराष्ट्रियोद्यानभ्रमणं, 10 मकराणां कच्छपानां च भविष्यति पुनर्वासम्
भाेपालम्, 01 मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव अद्य रविवासरे कूनो नेशनल पार्क आगमिष्यति। निर्धारितकार्यक्रमानुसारः सः अपराह्णे प्रायः एकवादने हेलिकॉप्टरयाननेन कूनो प्रदेशं प्राप्स्यति तथा कूनो नदी दश घड़ियालान् कच्छपांश्च
मुख्यमंत्री डॉ. यादव


भाेपालम्, 01 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव अद्य रविवासरे कूनो नेशनल पार्क आगमिष्यति। निर्धारितकार्यक्रमानुसारः सः अपराह्णे प्रायः एकवादने हेलिकॉप्टरयाननेन कूनो प्रदेशं प्राप्स्यति तथा कूनो नदी दश घड़ियालान् कच्छपांश्च विसर्जयिष्यति। अयं कार्यक्रमः वन्यजीवसंरक्षणस्य नदीपारिस्थितिकी-तन्त्रस्य सुदृढीकरणस्य च दिशि महत्त्वपूर्णः पदक्षेपः इति मन्यते।

कूनो-नद्यां घड़ियाल-कच्छपयोः पुनर्वासः जैवविविधतासंरक्षणदृष्ट्या अत्यन्तं महत्त्वपूर्णः अस्ति। विशेषज्ञानां मतानुसारं अस्य प्रभावेन नदीतन्त्रस्य प्राकृतिकसंतुलनं सुदृढं भविष्यति तथा जलीयजीवानां संख्यावृद्धिः प्रोत्साहिता भविष्यति।

मुख्यमन्त्रिणः आगमनसन्दर्भे जिलाप्रशासनं, वनविभागः, पुलिसविभागश्च सम्यक् सज्जाः सन्ति। कार्यक्रमस्थले, हेलिपदे, कूनो-नद्याः समीपे च सुरक्षा-व्यवस्था दृढीकृता अस्ति। अधिकाऱिणां पृथक् पृथक् दायित्वानि निर्धारितानि सन्ति तथा स्पष्टनिर्देशाः दत्ताः यत् कस्यापि स्तरस्य शिथिलता न भवेत्।

मुख्यमन्त्री प्रायः एकघण्टां कूनो-प्रदेशे स्थित्वा घड़ियाल-कच्छपयोः विसर्जनानन्तरं हेलिकॉप्टरयाननेन अशोकनगरं प्रति प्रस्थितः भविष्यति।

उल्लेखनीयम् अस्ति यत् २८ फरवरी-दिने मुख्यमन्त्रिणः कूनोभ्रमणं निरस्तम् अभवत्। तस्मिन् कार्यक्रमे बोत्सवाना-देशात् आनितान् नव चीतान् वने मोक्तुं योजना आसीत्। किन्तु अन्तिमक्षणे तस्य दौरा निरस्तः अभवत्। तस्मिन् कार्यक्रमे केन्द्रीय-वन-पर्यावरणमन्त्री उपस्थितः आसीत्।

---------------

हिन्दुस्थान समाचार