होलिकायाः वर्णैः सज्जः आपणः , ग्राहकेषु भारतीयोत्पादानामुत्साहः
नवदिल्ली, 01 मार्चमासः (हि.स)। प्रवीन खंडेलवाल यः चांदनी चौक क्षेत्रस्य सांसदः तथा कन्फेडरेशन ऑफ ऑल इंडिया ट्रेडर्स इत्यस्य राष्ट्रीयमहामन्त्री अस्ति, स अवदत् यत् होली केवलं वर्णोत्सवः न, अपितु देशस्य लघुव्यापारिणां शिल्पिनां स्टार्टअप्स घरेलुउद्
दिल्ली के बाजार का प्रतीकात्मक चित्र


नवदिल्ली, 01 मार्चमासः (हि.स)।

प्रवीन खंडेलवाल यः चांदनी चौक क्षेत्रस्य सांसदः तथा कन्फेडरेशन ऑफ ऑल इंडिया ट्रेडर्स इत्यस्य राष्ट्रीयमहामन्त्री अस्ति, स अवदत् यत् होली केवलं वर्णोत्सवः न, अपितु देशस्य लघुव्यापारिणां शिल्पिनां स्टार्टअप्स घरेलुउद्योगानां च कृते महान् आर्थिकावसरान् आनयति। अस्मिन् वर्षे आपणेषु भारतीयउत्पादनां विशेषप्राधान्यं दृश्यते इति तेन उक्तम्।

रविवासरे स अवदत् यत् अस्मिन् वर्षे होलीपर्वणि देशव्यापी व्यापारः प्रायेण ८० सहस्रकोटिरूप्यकाधिकं भविष्यति इति अनुमानम् अस्ति। विशेषतया स्वदेशीयउत्पादनानां विपुला मागः दृश्यते। देशस्य सर्वेषु नगरेषु कस्बेषु च बाजाराः सम्यक् अलङ्कृताः सन्ति, व्यापारगति: अपि वर्धते। अस्मिन् समये हर्बल् आर्गेनिक् त्वच्यनुकूलवर्णानां मागः निरन्तरं वर्धते। लघुपुटिकाभ्यः महत्पुटिकापर्यन्तं केमिकल् रहिताः प्राकृतिकवर्णाः बहुधा विक्रयन्ते।

बालकानां युवानां च मध्ये पिचकारीनाम् अपि महान् मार्गः अस्ति। विविधरूपयुक्ताः जलयन्त्राणि पम्पयुक्तपिचकार्यः आकर्षककार्टूनचित्रयुक्तपिचकार्यः च ग्राहकेषु विशेषाकर्षणं जनयन्ति।

होली-अवसरे वर्णमयटीशर्ट् स्कार्फ् विशेषकुर्ताः सामान्यवस्त्राणि च बहुधा क्रय्यन्ते। होलीविषयकलोपितायुक्तस्लोगनचित्रयुक्तवस्त्राणि युवानां मध्ये विशेषप्रियाणि भवन्ति। खाद्यपदार्थक्षेत्रे अपि होली-आपणः सम्यक् सजीवः अस्ति। देशव्यापी होलीमिलनसमारोहाः सांस्कृतिककार्यक्रमाः उत्सवाश्च व्यापारवृद्धिं रोजगारसृजनं च प्रेरयन्ति।

स अवदत् यत् स्वदेशीयउत्पादनानां वर्धमानमागः एतत् सूचयति यत् उपभोक्तारः भारतीयउत्पादनानि प्राधान्येन स्वीकरोति स्वदेशीयअर्थव्यवस्थां सुदृढीकर्तुं अग्रे सरन्ति। कन्फेडरेशन ऑफ ऑल इंडिया ट्रेडर्स देशवासिभ्यः आह्वानं कृतवती यत् अस्मिन् होलीपर्वणि स्वदेशीयउत्पादनानाम् अधिकाधिकं उपयोगं कृत्वा भारतीयव्यापारोद्योगयोः सशक्तीकरणे योगदानं ददतु।

---------------

हिन्दुस्थान समाचार