ईरानस्य सर्वोच्चनेता राष्ट्रपतिः च ‘सुरक्षितौ’, सर्वकारस्य दावा
​- नेतन्याहू-महोदयस्य कथनेन तनावः वर्धितः ​तेहरानम्/तेल-अवीवः, 01 मार्चमासः। मध्य-पूर्व-क्षेत्रे प्रचलतः सैन्य-सङ्घर्षस्य मध्ये ईरान-देशेन स्पष्टीकृतं यत् तस्य सर्वोच्चनेता राष्ट्रपतिः च पूर्णतया सुरक्षितौ स्तः। ईरान-विदेशमन्त्रालयस्य प्रवक्ता इस्
ईरानस्य सर्वोच्चनेता राष्ट्रपतिः च ‘सुरक्षितौ’, सर्वकारस्य दावा


​- नेतन्याहू-महोदयस्य कथनेन तनावः वर्धितः

​तेहरानम्/तेल-अवीवः, 01 मार्चमासः। मध्य-पूर्व-क्षेत्रे प्रचलतः सैन्य-सङ्घर्षस्य मध्ये ईरान-देशेन स्पष्टीकृतं यत् तस्य सर्वोच्चनेता राष्ट्रपतिः च पूर्णतया सुरक्षितौ स्तः। ईरान-विदेशमन्त्रालयस्य प्रवक्ता इस्माइल बगाई महोदयः एकस्मिन् साक्षात्कारे अवदत् यत् देशस्य राष्ट्रपतिः सर्वोच्चनेता च “सुरक्षितौ स्वस्थौ च” स्तः तथा च सर्वकारीय-तन्त्रं सामान्यरूपेण कार्यं करोति।

​बगाई-महोदयस्य एतत् कथनं तस्मिन् समये आगतं यदा इज़राइल-देशस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू दावं कृतवान् आसीत् यत् एतादृशाः “बहवः सङ्केताः” सन्ति येभ्यः प्रतीयते यत् ईरानस्य सर्वोच्चनेता इदानीं जीवितः नास्ति। तथापि सः स्वस्य दावस्य समर्थनार्थं किमपि ठोस-प्रमाणं सार्वजनिकं न कृतवान्।

​ईरान-पक्षतः दत्तं स्पष्टीकरणं क्षेत्रे प्रसरन्तीनां वार्ताणां (अटकलों) विरामार्थं प्रयासत्वेन दृश्यते।

​वर्तमान-स्थितौ उभयोः देशयोः मध्ये वाक्-युद्धेन सैन्य-गतिविधिभिः च तनावः अधिकः वर्धितः।

अन्ताराष्ट्रिय-समुदायः निरन्तरं संयमस्य कूटनीतिक-समाधानस्य च प्रार्थनां करोति, परन्तु धरातले स्थितिः अद्यापि अतीव संवेनदशलीला वर्तते।

------------------

हिन्दुस्थान समाचार / ANSHU GUPTA