Enter your Email Address to subscribe to our newsletters

धनबादनगरम्, २८ फरवरीमासः। धनबाद–नगर–निगमस्य महापौर–पदे जनतया संजीव–सिंहः अभूतपूर्व–बहुमतेन निर्वाचितः। सः ११४३६२ मतैः विजयम् अलभत्।
२७ फरवरीमासे आरब्धा मतगणना द्वितीयदिने २८ फरवरीमासे समाप्ता। निगमस्य ५५ वार्ड-इत्येतै: सह महापौर–प्रत्याशिनः सर्वेषां मतानां गणना पूर्णा अभवत्। प्रथम–चक्रात् आरभ्य दशम–पर्यन्तं चक्रं यावत् संजीव–सिंहः निरन्तरं अग्रतां धारयत्।
मतपरिणामेषु—संजीव–सिंहः ११४३६२ मतानि अलभत्; झारखंड मुक्ति मोर्चा–समर्थितः प्रत्याशी चंद्रशेखर-अग्रवाल: ८२४६० मतैः द्वितीयस्थाने स्थितः। कांग्रेस–समर्थितः शमशेर-आलम: ५९०७९ मतानि अलभत्, तथा भारतीय जनता पार्टी–समर्थितः संजीवकुमार: ५७८९५ मतैः चतुर्थस्थाने अभवत्।
विजय–घोषणानन्तरं संजीव–सिंहस्य समर्थकानां मध्ये, तथा सिंह–मेन्शन-क्षेत्रे उत्सवमयं वातावरणम् अभवत्। नव–निर्वाचितः महापौरः संजीव–सिंहः पॉलिटेक्निक-स्थानात् समर्थकानां अभिवादनं स्वीकृत्य सिंह–मेन्शन प्राप्नोत्। तत्र तस्य कुटुम्बजनैः तिलक–विधिना स्वागतं कृतम्। सम्पूर्णे क्षेत्रे आनन्द–उत्सवस्य भावः दृश्यते स्म।
हिन्दुस्थान समाचार / अंशु गुप्ता