Enter your Email Address to subscribe to our newsletters

-सिंगापुरजापानयोः यात्रया निर्वृत्तो मंत्रिणो नन्दिनः स्वागतम्
प्रयागराजः, 01 मार्चमासः (हि.स.)। उत्तरप्रदेशं वैश्विकमानचित्रे अधिकं सशक्तीकर्तुं, एकट्रिलियनडॉलरमूल्ययुक्तार्थव्यवस्थाराज्यरूपेण निर्मातुं तथा प्रदेशं वैश्विकनिवेशगन्तव्यरूपेण प्रतिष्ठापयितुं उद्देश्येन योगी आदित्यनाथ इत्यस्य नेतृत्वे सिंगापुरजापानदेशयोः चतुर्दिवसीययात्रां समाप्य प्रयागराजनगरं प्राप्तस्य उत्तरप्रदेशसरकारस्य औद्योगिकविकासमन्त्री नन्द गोपाल गुप्ता नन्दी महोदयस्य रविवासरे तस्य बहादुरगञ्जनिवासे भारतीय जनता पार्टी पदाधिकरिणः कार्यकर्तारः व्यापारीणः उद्यमिनः समर्थकाः च स्वागतं अभिनन्दनं च अकुर्वन्। मन्त्रिणा नन्दिना पूर्वमहापौरया अभिलाषा गुप्ता सह सर्वेषां प्रति कृतज्ञता व्यक्ता।
मन्त्री नन्दी अवदत् यत् सिंगापुरजापानदेशयोः अयं दौरा दर्शितवान् यत् अद्य भारतस्य तथा उत्तरप्रदेशस्य छवि: विश्वस्तरे अत्यन्तं सकारात्मकाऽस्ति। पारदर्शिनीतयः, उत्तमा विधिव्यवस्था, दृढम् अधोसंरचनं च कारणत्वेन निवेशकानां विश्वासः वर्धितः। सिंगापुरे जापाने च समष्ट्या १.५ लक्षकोटिरूप्यकाणां समझौतापत्राणि तथा २.५ लक्षकोटिरूप्यकाणां निवेशप्रस्तावाः एतस्य प्रमाणम् यत् उत्तरप्रदेशः अधुना वैश्विकनिवेशमानचित्रे दृढां उपस्थितिं स्थापितवान्। अयं दौरा प्रदेशं एकट्रिलियनडॉलरमूल्ययुक्तार्थव्यवस्थारूपेण निर्मातुं निर्णायकः ऐतिहासिकश्च पदक्षेपः भविष्यति।
मन्त्री अवदत् यत् अस्य यात्रायाः फलस्वरूपं प्रदेशे विदेशीनिवेशस्य नवीनाः सम्भावनाः उद्घाटिताः भविष्यन्ति, तथा राज्यं एकट्रिलियनडॉलरअर्थव्यवस्थाराज्यलक्ष्यस्य दिशि शीघ्रगत्याऽग्रे गमिष्यति। अस्माकं द्विचक्रसरकार उत्तरप्रदेशं भाविसज्जम् औद्योगिकआर्थिककेन्द्ररूपेण विकसितुं प्रतिबद्धा अस्ति। प्रदेशे द्रुतगत्या एक्सप्रेसवेजालम्, बहुविधलॉजिस्टिक्सउद्यानम्, डिफेन्सकॉरिडोर्, डेटासेंटरउद्यानानि, नवानि औद्योगिकनगराणि च विकसितानि सन्ति।
नन्दी अवदत् यत् यः उत्तरप्रदेशः पूर्वं दङ्गकर्फ्यूकारणेन प्रसिद्धः आसीत्, स एव अद्य विकासनिवेशआस्थाऔद्योगिकप्रगतिवैश्विकविश्वासानां केन्द्रं जातः। अद्यतनः उत्तरप्रदेशः दङ्गप्रदेशः नास्ति। नरेंद्र मोदी महोदयस्य दृष्टिकोणं भूमितले प्रभावकारिण्या रीत्या कार्यान्वितं कृत्वा उत्तरप्रदेशेन विरासतविकासयोः संतुलितं प्रेरणादायकं उदाहरणं प्रस्तुतम्।
अस्मिन् अवसरे भाजपा महानगरोपाध्यक्षः अनिलकेसरवानी झल्लर, मण्डलाध्यक्षः चौक सुमितवैश्य, मण्डलाध्यक्षः नैनी रजतदुबे, मण्डलाध्यक्षः मीरापुर गयाप्रसादनिषादो, मण्डलाध्यक्षः कीडगञ्ज कबीरजायसवाल, पूर्वमण्डलाध्यक्षः रणविजयसिंह, राघवेन्द्रमिश्र, किशोरीलालजायसवाल, दिलीपकेसरवानी, विजयकेसरवानी, नरसिंहः, ओमप्रकाशमिश्रः आदयः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार