Enter your Email Address to subscribe to our newsletters


- शोक संतृप्त परिवारं प्रति व्यक्ताः संवेदनाः
भोपालम्, 01 मार्चमासः (हि.स.)।
डॉ मोहन यादवो मध्यप्रदेशस्य मुख्यमन्त्री रविवासरे अशोकनगरजनपदस्य नईसरायतहसीलान्तर्गतग्रामे मढ़ीमहिदपुरे उपस्थित्य राष्ट्रीय स्वयंसेवक संघ इत्यस्य मध्यक्षेत्रसहबौद्धिकशिक्षणप्रमुखस्य हितानन्दशर्मणः परमपूजनीयमाता जनकदुलारीशर्मायाः निधनावसरे श्रद्धाञ्जलिं अर्पितवान्।
स दिवंगतात्मनः शान्त्यर्थम् ईश्वरं प्रति प्रार्थनां कृत्वा तस्याः चित्रे श्रद्धासुमनानि अर्पितवान्। मुख्यमन्त्री बाबा महाकालस्य चरणयोः दिवंगतायै पुण्यात्मने स्थानप्राप्त्यर्थं प्रार्थनां कृतवान् तथा शोकसंतप्तपरिवारस्य प्रति गाढसंवेदनाः व्यक्ताः।
उल्लेखनीयम् यत् जनकदुलारीशर्मायाः निधनं गतमङ्गलवासरे भोपालनगरे अभवत्। तस्याः अन्त्येष्टिः पैतृकग्रामे अशोकनगरजनपदस्य नईसरायतहसीलान्तर्गतग्रामे मढ़ीमहिदपुरे सम्पन्ना आसीत्।
मुख्यमन्त्री अवदत् यत् स्वर्गीया जनकदुलारीशर्मा धार्मिकप्रवृत्त्या सादगीपूर्णजीवनेन संस्कारसम्पन्नव्यक्तित्वेन च प्रसिद्धा आसीत्। सा समाजं परिजनांश्च सामाजिकमूल्यैः राष्ट्रभावनया सेवासंस्कारैः च प्रेरितवती। जनकदुलारीशर्मां सर्वे बालकाः “अम्मा राधे राधे” इति सम्बोधयन्ति स्म। तस्याः वियोगः अपूरणीयहानिः अस्ति। तस्याः मथुरावृन्दावनयोः प्रति विशेषः अनुरागः आसीत्, तत्र तस्याः आगमनगमनं निरन्तरं भवति स्म। सा स्वपरिवारस्य दायित्वं पूर्णतया निर्वहिता आसीत्। मुख्यमन्त्री अवदत् यत् तस्याः अस्वस्थताकाले अहं ग्रामं मढ़ीमहिदपुरं गत्वा तस्याः स्वास्थ्यस्य समाचारं ज्ञातवान्। विधायकौ जगन्नाथसिंहरघुवंशी तथा बृजेन्द्रसिंहयादव अपि श्रद्धाञ्जलिं अर्पितवन्तौ।
अनन्तरं मुख्यमन्त्री डॉ मोहन यादव ग्वालियरजनपदस्य जलालपुरग्रामं गत्वा विधायकस्य प्रीतम लोधी मातुः स्वर्गीयभागवतीबायाः निधनावसरे शोकसंवेदनाः व्यक्तवान्। स तस्याः चित्रे पुष्पाञ्जलिं अर्पितवान्। अस्मिन् अवसरे वरिष्ठविधायकः प्रदेशभाजपाध्यक्षः हेमंत खंडेलवालो, जयप्रकाशराजौरिया, प्रेमसिंहराजपूतादयः जनप्रतिनिधयः उपस्थिताः आसन्। विधायकस्य प्रीतमलोधेः माता भागवतीबाया गत २६ फरवरी दिने शतवर्षपर्यन्तायुषि प्रायेण निधनं प्राप्तवती।
---------------
हिन्दुस्थान समाचार