Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २८ फरवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादव: अवदत् यत् प्रदेशस्य सर्वेषु ग्राम्य–अञ्चलेषु यात्रिणां कृते सुगम–आवागमन–सुविधा उपलब्धा भवेत्, इति लक्ष्याय वयं सर्वान् आवश्यकान् उपायान् कुर्मः। अस्मिन् लक्ष्ये वयं दृढनिश्चयाः स्मः। सर्वेषां हितानां संरक्षणं स्यात्, लोक–परिवहन–सेवा च निर्बाधतया प्रवर्तेत—एतदेव अस्माकं ध्येयम्।
शनिवासरस्य रात्रौ स्वनिवास–कार्यालये समत्व–भवने मुख्यमन्त्री डॉ.यादवः मध्यप्रदेश बस ऑनर्स एसोसिएशन-इत्यस्य प्रतिनिधिभिः (बस्–परिवाहकैः) सह विस्तृतां चर्चां कृतवान्। सः अवदत्—वयं यात्रिभ्यः, विशेषतः ग्राम्य–अञ्चल–निवासिभ्यः, सुगम–परिवहन–सेवां दातुम् इच्छामः; किन्तु अस्य उद्देश्यस्य पूर्तौ कस्यापि हानिः न अनुमन्यते।
मुख्यमन्त्रीणोक्तं यत् बस-संचालकानां सर्वाः शङ्काः तथा कठिनताः मिलित्वा निराकर्तुं प्रयत्नः क्रियते। ऑनर्स–असोसिएशन-इत्यस्य पदाधिकारिणः परिवहन–मन्त्रिणा सह समागत्य स्वशङ्कानां, कठिनतानां, समस्याणां च समाधानं प्राप्स्यन्ति—इत्यर्थे सः परिवहन–मन्त्रिणं निर्देशयति। उभयोः पक्षयोः चर्चया समाधानानन्तरमेव अग्रे कार्यवाही भविष्यति। शासनद्वारा निर्गतयोः एका सूचनाया एका च अधिसूचनाया होल्ड् (स्थगन) करणाय मुख्यमन्त्रीणा निर्देशः दत्तः।
मुख्यमन्त्रिणा सह सकारात्मक–संवादः, स्वयाचनानां विषये विस्तृत–चर्चा, तथा उक्त–सूचना–अधिसूचनयोः स्थगनस्य आश्वासनं लब्ध्वा, बस–ऑनर्स–असोसिएशन-इत्यस्य पदाधिकारिणः अग्रिम २ मार्चमास २०२६ तः प्रारम्भ्यमाणां बस–प्रदर्शनं प्रत्याहर्तुम् उद्घोषं कृतवन्तः। विषयस्य सन्तोषजनक–समाधानाय मुख्यमन्त्रिणे डॉ.यादवाय हृदयतया कृतज्ञतां च व्यक्तवन्तः। अस्यां सभायां परिवहन–सचिवः मनीष–सिंहः, असोसिएशनस्य अध्यक्षः, उपाध्यक्षः, अन्ये पदाधिकारिणः, तथा प्रदेशस्य दश–सम्भागेभ्यः आगताः बस-स्वामिन: अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता