Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 01 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे केन्द्रशासितप्रदेशं पुडुचेरी प्रति द्विसहस्रसप्तशतकोटिरूप्यकाधिकमूल्यानां विकासपरियोजनानां सौगातं दत्तवान्। विविधपरियोजनानां लोकार्पणं शिलान्यासं च कृत्वा सः जनसभां सम्बोधितवान्।
प्रधानमन्त्री उक्तवान् यत् पुडुचेर्याः विकासः बेस्ट पुडुचेरी इति सूत्रेण प्रेरितः अस्ति। बेस्ट इत्यस्य अभिप्रायः अस्ति व्यवसायः शिक्षा अध्यात्म पर्यटनं च इति चतुर्षु क्षेत्रेषु समन्वितविकासः। गतसार्धचतुर्वर्षेषु एषः संकल्पः स्थूलफलानि दातुं आरब्धवान्। सः अवदत् यत् यदा केन्द्रसर्वकारः केन्द्रशासितप्रदेशसरकारः च समानदृष्ट्या समर्पणेन च कार्यं कुरुतः तदा शीघ्रं श्रेष्ठफलानि लभ्यन्ते। द्विचक्रसरकारेण विकासाय वेगः दत्तः जनजीवनं च सरलतां नीतम्। पूर्ववर्तिसर्वकाराणां विषये कटाक्षं कृत्वा सः उक्तवान् यत् पूर्वं पुडुचेरी राजनीतिकस्वार्थस्य साधनं कृतम् अधुना तु विकासः प्रमुखतया स्वीकृतः अस्ति।
सः अवदत् यत् चलितवित्तवर्षस्य केन्द्रीयबजटे आधारभूतसंरचनानिर्माणाय द्वादशलक्षकोटिरूप्यकाणां अभूतपूर्वं प्रावधानं कृतम्। अस्य लाभः पुडुचेरीसहितं देशस्य सर्वेषु क्षेत्रेषु भविष्यति। प्रधानमन्त्रिणा घोषितं यत् पुडुचेरी राज्यानां पूंजीनिवेशाय विशेषसहायता योजनायाम् अन्तर्भावितः अस्ति। पूर्वं एषा योजना केवलं पूर्णराज्येभ्यः सीमिता आसीत्। अस्य निर्णयस्य फलस्वरूपं मार्गनिर्माणे जलापूर्तौ तटीयसंरचनायां विद्यालयेषु चिकित्सालयेषु तथा अन्येषु लोकहितकार्येषु अतिरिक्तधनं उपलब्धं भविष्यति।
अस्मिन् अवसरॆ प्रधानमन्त्रिणा सप्तशतपञ्चाशदेकडपरिमिते विकसिते करसुर सेदारापेट औद्योगिकक्षेत्रं राष्ट्राय समर्पितम्। तेन उक्तं यत् एषः परिसरः भविष्ये औषधिपार्क वस्त्रपार्क सूचना प्रौद्योगिकीपार्करूपेण विकसितः भविष्यति। अनेन निवेशः प्रवर्धिष्यते स्थानिकयुवानां कृते रोजगारावसराः सृज्यन्ते च। अत्र अनुसंधानविकाससुविधाः स्वास्थ्यसेवाविस्तारः च योजनायां सन्ति।
प्रधानमन्त्री उक्तवान् यत् ग्रामीणनगरीययोः उभयोः क्षेत्रयोः मार्गजालं सुदृढीक्रियते। पुडुचेरीनगरे प्रायः सहस्रकोटिरूप्यकमूल्यानां परियोजनाः प्रवर्तन्ते यासु शतचत्वारिंशत्कोटिरूप्यकव्ययेन निर्मीयमानः उड्डयनपुलः अपि अन्तर्भवति। राष्ट्रियराजमार्गपरियोजनाभिः यातायातदबावः न्यूनीभविष्यति आर्थिकक्रियाः च प्रवर्धिष्यन्ते।
सः अवदत् यत् आयुष्मानभारतयोजनया कोटिशः परिवाराः सुलभमल्पार्घं च चिकित्सोपचारं लभन्ते। पुडुचेरीप्रदेशे नव चिकित्सामहाविद्यालयाः सन्ति अतः एतत् चिकित्सापर्यटनकेन्द्ररूपेण अपि विकसितुं शक्यते। विद्युतचालितबसाः प्रदूषणन्यूनतायै सहायकाः भविष्यन्ति सार्वजनिकपरिवहनस्य सुदृढीकरणाय प्रयत्नाः निरन्तरं प्रवर्तन्ते।
तथा च करैकालस्थिते राष्ट्रीयप्रौद्योगिकीसंस्थाने नूतनाः अभियंत्रणविभागाः आधुनिकसुविधाः च विकसिताः सन्ति। पुडुचेरीविश्वविद्यालये अपि आधारभूतसंरचनासुदृढीकरणं कृतम्। प्रधानमन्त्रिणा उक्तं यत् सशक्तः ऊर्जावान् च युवा एव राष्ट्रप्रगतेः आधारशिला अस्ति तथा सर्वकारः तेषां स्वप्नसाकारार्थं प्रतिबद्धा अस्ति।
---------------
हिन्दुस्थान समाचार