राष्ट्रपतिः सोमवासरे निगमिष्यति दिल्ल्याः महिलाभ्यः स्थलपद्मीयपत्रम्
-ब्लू कार्ड सामान्य यात्रिभ्यः ऑरेंजवर्णीयमासिकानुज्ञापिभ्यः उपयोगकर्तृभ्यः निर्गमिष्यति नवदिल्ली, 01 मार्चमासः(हि.स.)। केन्द्रसरकारस्य ‘वन नेशन वन कार्ड’ इति योजनायाः प्रेरणां स्वीकृत्य दिल्लीस्थितया रेखागुप्ता-सरकारेण राजधानीनिवासिनीनां कृते न
राष्ट्रपतिः सोमवासरे निगमिष्यति दिल्ल्याः महिलाभ्यः स्थलपद्मीयपत्रम्


-ब्लू कार्ड सामान्य यात्रिभ्यः ऑरेंजवर्णीयमासिकानुज्ञापिभ्यः उपयोगकर्तृभ्यः निर्गमिष्यति

नवदिल्ली, 01 मार्चमासः(हि.स.)।

केन्द्रसरकारस्य ‘वन नेशन वन कार्ड’ इति योजनायाः प्रेरणां स्वीकृत्य दिल्लीस्थितया रेखागुप्ता-सरकारेण राजधानीनिवासिनीनां कृते नेशनल कॉमन मोबिलिटी कार्ड (एनसीएमसी) नाम नूतनस्मार्टकार्डस्य प्रारम्भः क्रियते। सोमवासरे २ मार्च दिनाङ्के इंदिरा गांधीक्रीडांगणे आयोजिते विशेषभव्यकार्यक्रमे ‘सशक्त नारी समृद्ध दिल्ली’ इति राष्ट्रपतिना द्रोपदीमुर्मूणोक्ता एषा महत्त्वाकाङ्क्षिणी योजना, या ‘पिंक कार्ड’ इति अपि कथ्यते, उद्घाटिता भविष्यति।

मुख्यमन्त्री रेखागुप्ता उक्तवती यत् एषः कार्डः दिल्ली-निवासिनीनां महिलानां कृते दिल्ल ट्रास्पोर्टेशनबससेवायां निःशुल्कयात्रासुविधां प्रदास्यति। अपि च मेट्रो, रीजनल रैपिड ट्रान्जिट सिस्टम (आरआरटीएस) तथा अन्येषु सार्वजनिकपरिवहनसेवेषु एकेनैव स्मार्टकार्डेन सशुल्कसेवा उपलब्धा भविष्यति। अस्याः पहलस्य उद्देश्यं सार्वजनिकपरिवहनं अधिकं सुलभं सुरक्षितं च डिजिटलरूपेण विकसितुं वर्तते। अनेन महिलानां दैनिकयात्राव्ययः न्यूनः भविष्यति तथा शिक्षा, रोजगार, स्वास्थ्यसेवा एवं सामाजिकावसराणां प्रति सुगमगमनं सुलभं भविष्यति।

योजनान्तर्गतं त्रिविधाः एनसीएमसी कार्डाः प्रदास्यन्ते। पिंक कार्डः पात्रमहिलानां कृते, ब्लू कार्डः सामान्ययात्रिकाणां कृते, ऑरेंजपत्रं मासिकपासोपयोजकानां कृते च भविष्यति। आदौ पिंक तथा ब्लू कार्डौ आरभ्येते, अनन्तरं ऑरेंज कार्डः प्रवर्तिष्यते।

कार्ड-प्रदाने कृते दिल्ली ट्रांसपोर्टेशन कॉरपोरेशनशद्वारा हिन्दन मर्केंटाइल लिमिटेड (मुफिनपे) तथा एयरटेल पेमेंट्स बैंक लिमिटेड इत्येतौ अधिकृतौ स्तः। एते कार्डाः दिल्लीसार्वजनिकपरिवहनव्यवस्थायां विद्यमानस्य ऑटोमेटिक फेयर कलेक्शन सिस्टम (एएफसीएस) इत्यनेन सह एकीकृताः भविष्यन्ति। पिंक कार्डः पात्रमहिलाभ्यः पूर्णतया निःशुल्कं दास्यते, यस्य सम्पूर्णव्ययः दिल्लीसर्वकारेण वक्ष्यते।

पत्रवितरणार्थं प्रायः पञ्चाशत् केन्द्राणि स्थाप्यन्ते, यत्र जिला मजिस्ट्रेट तथा एसडीएम कार्यालयानि, अपि च चयनितानि डीटीसी केन्द्राणि सन्ति। न्यूनदस्तावेजाधारेण प्रक्रिया सरला शीघ्रा पारदर्शिनी च भविष्यति। प्रत्येकः पिंक कार्डः लाभार्थिन्याः मोबाइलसंख्यया तथा आधारसंख्यया सह सम्बद्धः भविष्यति। आधारप्रमाणीकरणेन आयुः पञ्चवर्षाधिकता, लिङ्गं महिला इति, तथा दिल्ली-निवासः पिनकोडाधारेण निश्चितः भविष्यति, येन पात्रता सुनिश्चितीभवति तथा द्विरुक्तिः निवार्यते।

एषः टच-फ्री सुरक्षितस्मार्टकार्डः भविष्यति, येन प्रत्येकस्य यात्रायाः सम्यक् डिजिटल-अभिलेखः स्थाप्यते। नगदव्यवहारः न्यूनः भविष्यति तथा आयव्ययलेखाः अधिकं पारदर्शिनः भविष्यन्ति। यात्रासांख्यिकीयदत्तांशानां साहाय्येन बसमार्गनिर्णयः, बससंख्याविनियोजनं तथा उत्तमप्रशासननिर्णयः सुकरः भविष्यति। एषः पिंक कार्डः पूर्वप्रचलितस्य पिंक-पेपर चिटिकायाः स्थानं ग्रहिष्यति, येन सम्पूर्णा व्यवस्था अधिका सुगमा आधुनिका च भविष्यति।

---------------

हिन्दुस्थान समाचार