Enter your Email Address to subscribe to our newsletters



- उत्तर प्रदेशे सुरक्षा व्यवस्थावर्धिता
लखनऊ, 01 मार्चमासः (हि.स.)।
ईरानदेशस्य सर्वोच्चनेता आयतुल्ला अली खामेनेई इत्यस्य निधनवार्तायाः अनन्तरं उत्तरप्रदेशस्य राजधानी लखनऊ सहितेषु अनेकेषु जिलेषु शिया समुदायस्य जनाः मार्गेषु आगत्य प्रदर्शनं कृतवन्तः। लखनऊ नगरे रोदमानाभिः महिलाभिः सह बहुसंख्यकजनाः छोटा इमामबाड़ा इत्यस्मात् स्थानात् हस्तेषु पोस्टराणि धारयन्तः प्रदर्शनं कुर्वन्तः पदयात्रां कृतवन्तः। प्रदर्शनकारिणः “खामेनेई जिन्दाबाद” “अमेरिका इजराइल मुर्दाबाद” इत्यादीनि घोषवाक्यानि उच्चारितवन्तः। अस्य प्रदर्शनस्य अनन्तरं उत्तरप्रदेशे सुरक्षा व्यवस्था वर्धिता अस्ति।
अमेरिका इजराइलयोः युद्धकालस्य मध्ये खामेनेई इत्यस्य निधनानन्तरं उत्तरप्रदेशे प्रदर्शनानि आरब्धानि। लखनऊ नगरे शिया समुदायस्य सहस्रशः जनाः मार्गेषु अवतीर्णाः। महिलाः रोदनं कुर्वन्त्यः मातमाचरणं कृतवन्त्यः दृश्यन्ते स्म। छोटा इमामबाड़ा इत्यस्मात् बहुसंख्यया जनाः पोस्टराणि धारयन्तः पदयात्रां कृतवन्तः।
लखनऊस्य शिया चाँद कमेटी अध्यक्षः मौलाना सैफ अब्बास उक्तवान् यत् अमेरिका इजराइलाभ्यां कृतं आतङ्ककर्म निन्दनीयम् अस्ति तथा विश्वस्य सर्वैः राष्ट्रैः मिलित्वा अस्य विरोधः कर्तव्यः। खामेनेई इत्यस्य निधनानन्तरं सर्वैः देशैः स्वध्वजाः श्रद्धांजलिरूपेण नमनीयाः इति तेन उक्तम्। शिया समुदायस्य जनाः त्रिदिवसीयं शोकं आचरिष्यन्ति स्वप्रतिष्ठानानि च निमीलयिष्यन्ति।
ऑल इंडिया शिया पर्सनल लॉ बोर्ड नाम संस्थया अपि त्रिदिवसीयशोकस्य घोषणा कृता। बोर्डस्य महासचिवः मौलाना यासूब अब्बास इत्यस्य घोषणानन्तरं बड़ा तथा छोटा इमामबाड़ा त्रिदिवसानि पर्यटकानां कृते निमीलितौ स्तः। मौलाना कल्बे जवाद अवदत् यत् खामेनेई इत्यस्य निधनावसरे रविवासरे रात्रौ अष्टवादने छोटे इमामबाड़ा स्थले शोकसभा आयोजिता भविष्यति तथा बहुसंख्यकजनानां उपस्थितये सः आवाहनं कृतवान्।
बरेली जौनपुर संभल इत्यादिषु अनेकेषु जिलेषु अपि प्रदर्शनानि भवन्ति। बरेली नगरे ऑल इंडिया मुस्लिम जमात संस्थायाः राष्ट्रियाध्यक्षः मौलाना शहाबुद्दीन रजवी बरेलवी उक्तवान् यत् खामेनेई इत्यस्य शहादत् सम्पूर्णस्य मिल्लत इस्लामिया समुदायस्य कृते दुःखदायकः विषयः अस्ति। सः अपि शान्तिपूर्णविरोधस्य आवाहनं कृत्वा उक्तवान् यत् जुलूससमये कश्चन अपि व्यक्ति नियमं न उल्लङ्घयेत्।
उत्तरप्रदेशस्य विभिन्नेषु जनपदेषु भवन्ति प्रदर्शनानि दृष्ट्वा पुलिसविभागः सजगः अस्ति। पुलिसमहानिदेशकः राजीव कृष्ण सर्वेषां जिलानां पुलिसकप्तानान् पुलिसकमिश्ररेटाधिकारिणः च आदेशितवान् यत् कस्यापि परिस्थितौ प्रदेशस्य कानून व्यवस्था न विचलिता भवेत्। संवेदनशील अतिसंवेदनशील क्षेत्रेषु सुरक्षा व्यवस्था वर्धनीया इति निर्देशः दत्तः। अस्य अन्तर्गतं लखनऊ सहितेषु अनेकेषु जनपदेषु पुलिसबलस्य सुरक्षा संस्थानां च निरीक्षणं वर्धितम् अस्ति।
---------------
हिन्दुस्थान समाचार