मोबाइल वर्ल्ड कांग्रेससंगोष्ठी बार्सिलोनायां, भारतस्य प्रतिनिधित्वं करिष्यति केंद्रीयमंत्री सिंधिया
नवदिल्ली, 01 मार्चमासः (हि.स.)। केन्द्रीयसंचारमन्त्री ज्योतिरादित्य सिंधिया 2 तः 5 मार्च पर्यन्तं स्पेनदेशस्य बार्सिलोना नगरे आयोजिते मोबाइल वर्ल्ड कांग्रेस इति महाधिवेशने भारतस्य प्रतिनिधित्वं करिष्यति। संचारमन्त्रालयेन उक्तं यत् बार्सिलोना नगर
सिंधिया जी


नवदिल्ली, 01 मार्चमासः (हि.स.)।

केन्द्रीयसंचारमन्त्री ज्योतिरादित्य सिंधिया 2 तः 5 मार्च पर्यन्तं स्पेनदेशस्य बार्सिलोना नगरे आयोजिते मोबाइल वर्ल्ड कांग्रेस इति महाधिवेशने भारतस्य प्रतिनिधित्वं करिष्यति।

संचारमन्त्रालयेन उक्तं यत् बार्सिलोना नगरे आगत्य सिंधिया महोदयः सम्मेलनस्थले भारतमण्डपस्य उद्घाटनं करिष्यति। अस्य माध्यमेन भारतस्य दूरसंचारविनिर्माणक्षमता तथा नवाचारपरितन्त्रं वैश्विकमञ्चे प्रदर्श्यते। सः इंडिया मोबाइल कांग्रेस इत्यस्य कर्टेन रेजर कार्यक्रमस्य अपि अनावरणं करिष्यति।

अस्मिन् अवसरि ज्योतिरादित्य सिंधिया जीएसएमए मन्त्रिस्तरीय कार्यक्रमे ‘बिल्ट फॉर व्हाट्स नेक्स्ट’ इति सत्रं सम्बोधयिष्यति। अस्मिन् सत्रे भविष्यकालीनडिजिटलअवसंरचना तथा उदयोन्मुखप्रौद्योगिकीसंरचनायाः विषये चर्चा भविष्यति। सः ‘ब्रेकिंग द कॉस्ट बैरियर’ इति विषये समापनमुख्यभाषणं दास्यति। अस्मिन् सुलभसमावेशिविस्तारयोग्यडिजिटलकनेक्टिविटीमॉडेल विषये विशिष्टं बलं दीयते।

भ्रमणकाले सिंधिया वैश्विकमुख्यकार्यपालकाधिकारिभिः सह रात्रिभोजकार्यक्रमे सहभागी भविष्यति। सः विविधवैश्विकभारतीयसंस्थानां स्टॉलानां भ्रमणं करिष्यति तथा प्रौद्योगिकीप्रदर्शनानां अवलोकनं करिष्यति। सः तेजस नेटवर्क्स इत्यस्य स्टॉले टी31600 डी3 हाइपर स्केलेबल डीसीआई प्लेटफार्म इत्यस्य शुभारम्भं करिष्यति।

सिंधिया दूरसंचारक्षेत्रस्य विभिन्नहितधारकैः सह उच्चस्तरीयद्विपक्षीयोपवेशनानि अपि करिष्यति। एतासु गोष्ठीषु सार्वभौमिकसार्थककनेक्टिविटी तथा सुदृढसंचार-अवसंरचनायाः विषये सहयोगस्य अवसराः अन्विष्यन्ते।

---------------

हिन्दुस्थान समाचार