Enter your Email Address to subscribe to our newsletters

जयपुरम्, 01 मार्चमासः (हि.स.)।
राज्यसभासांसदः मदन राठौड़ उक्तवान् यत् राजस्थानराज्यं अद्य नवाचाराणां गढरूपेण विकसितं भवति। “राजस्थान सीसाइड स्टार्टअप समिट २०२६” इत्यस्य आयोजनम् एतत् सिद्धं करोति यत् राजस्थानसरकार स्टार्टअपसंस्कृतेः प्रोत्साहने अग्रे अस्ति, अत्रस्थिताः स्टार्टअपसंस्थाः स्वनवाचारैः देशविदेशयोः प्रदेशस्य यशः प्रसारयन्ति।
राठौड़ः राजस्थानसरकारस्य सूचना प्रौद्योगिकी संचारविभागस्य सहयोगेन Open Innovation Lotus Foundation तथा आर्मेनियादेशस्य सरकारेण सह Hotel Taj Amer इत्यत्र आयोजितस्य “राजस्थान सीसाइड स्टार्टअप समिट” इत्यस्य अन्तिमदिने पिचसत्रस्य ग्राण्डफिनाले कार्यक्रमे सम्बोधनं कृतवान्।
राठौड़ः अवदत् यत् अद्य ईवेस्ट इति समस्या विश्वस्य प्रमुखासु समस्यासु गण्यते। स स्टार्टअपसंचालकान् आह्वानम् अकरोत् यत् ते ईवेस्टसमस्यायाः निवारणाय नवाचाराः इति समाधानानि अन्विष्य तेषु कार्यं कुर्वन्तु, येन देशविश्वयोः हितं साध्येत। कृत्रिमबुद्धिमत्ताविषये चर्चां कुर्वन् स अवदत् यत् अस्य लाभाः अपि सन्ति, हानयः अपि सन्ति। विकासाय कृत्रिमबुद्धिमत्तायाः सदुपयोगः आवश्यकः, किन्तु तस्य दुष्प्रभावनिवारणाय उचितपदानि अपि ग्रहीतव्यानि।
जयगढ़ बॉलरूम इत्यत्र आयोजिते पिचसत्रस्य ग्राण्डफिनाले कार्यक्रमे चयनिताः स्टार्टअपसंस्थाः निर्णायकमण्डलस्य समक्षं स्वप्रतिभां प्रदर्शितवन्तः। तेषु पर्यटनआतिथ्यक्षेत्रे कार्यरतः “ट्रेवस्टेक”, गोकाष्ठपुनर्चक्रणं कुर्वन् “अर्थ”, मशीनीबुद्धिमत्तासम्बद्धः “कैपेक्सिया डायनामिक्स”, जलप्रबन्धनसम्बद्धः “गतिशील”, पारिवारिकपूँजी निवेशसम्बद्धः “वैल्थएक्स”, गतिविध्यनुभवसुधारणाय समर्पितः “औडोरा” तथा मनोवैज्ञानिककृत्रिमबुद्धिमत्तामञ्चः “द बेसिक साइको” इत्यादयः सम्मिलिताः आसन्।
प्रत्येकस्टार्टअपसंस्थायै स्वप्रस्तुतीकरणार्थं त्रिमिनिट्कालः दत्तः, निर्णायकमण्डलस्य प्रश्नोत्तराय पञ्चमिनिट्कालः अपि निर्दिष्टः। अनन्तरं द्वयोर्द्वयोः स्टार्टअपसंस्थयोः मध्ये फेसऑफ स्पर्धा अपि आयोजिताऽभवत्।
---------------
हिन्दुस्थान समाचार